अन्यभावव्यावृत्तेश्च ॥ १२ ॥
अन्यभावव्यावृत्तेश्च कारणाद्ब्रह्मैवाक्षरशब्दवाच्यम् , तस्यैवाम्बरान्तधृतिः कर्म, नान्यस्य कस्यचित् । किमिदम् अन्यभावव्यावृत्तेरिति ? अन्यस्य भावोऽन्यभावः तस्माद्व्यावृत्तिः अन्यभावव्यावृत्तिरिति । एतदुक्तं भवति — यदन्यद्ब्रह्मणोऽक्षरशब्दवाच्यमिहाशङ्क्यते तद्भावात् इदमम्बरान्तविधारणमक्षरं व्यावर्तयति श्रुतिः — ‘तद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ अश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इति । तत्रादृष्टत्वादिव्यपदेशः प्रधानस्यापि सम्भवति । द्रष्टृत्वादिव्यपदेशस्तु न सम्भवति, अचेतनत्वात् । तथा ‘नान्यदतोऽस्ति द्रष्टृ, नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृ’ इत्यात्मभेदप्रतिषेधात् , न शारीरस्याप्युपाधिमतोऽक्षरशब्दवाच्यत्वम्; ‘अचक्षुष्कमश्रोत्रमवागमनः’ (बृ. उ. ३ । ८ । ८) इति चोपाधिमत्ताप्रतिषेधात् । न हि निरुपाधिकः शारीरो नाम भवति । तस्मात्परमेव ब्रह्माक्षरमिति निश्चयः ॥ १२ ॥