ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
सा च प्रशासनात् ॥ ११ ॥
सा अम्बरान्तधृतिः परमेश्वरस्यैव कर्मकस्मात् ? प्रशासनात्प्रशासनं हीह श्रूयतेएतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ (बृ. उ. ३ । ८ । ९) इत्यादिप्रशासनं पारमेश्वरं कर्म अचेतनस्य प्रशासनं सम्भवति ह्यचेतनानां घटादिकारणानां मृदादीनां घटादिविषयं प्रशासनमस्ति ॥ ११ ॥

चेतनकर्तृकशिक्षाया अत्र श्रुतेर्मैवमित्याह

सा चेति ।

सूत्रं व्याचष्टे

सा चेति ।

चकार आकाशस्य भूतत्वनिरासार्थः । भूताकाशस्य कार्यन्तःपातिनः श्रुतसर्वकार्याश्रयत्वायोगादव्याकृतमज्ञानमेवाकाशः प्रधानशब्दित इति तदाश्रयत्वाच्चाक्षरं न प्रधानमित्यर्थः । विधृतौ विषयत्वेन धृतौ ॥ ११ ॥