ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥
परमेव ब्रह्म इह अभिध्यातव्यमुपदिश्यतेकस्मात् ? ईक्षतिकर्मव्यपदेशात्ईक्षतिर्दर्शनम्; दर्शनव्याप्यमीक्षतिकर्मईक्षतिकर्मत्वेनास्याभिध्यातव्यस्य पुरुषस्य वाक्यशेषे व्यपदेशो भवति — ‘ एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षतेइतितत्र अभिध्यायतेरतथाभूतमपि वस्तु कर्म भवति, मनोरथकल्पितस्याप्यभिध्यायतिकर्मत्वात्ईक्षतेस्तु तथाभूतमेव वस्तु लोके कर्म दृष्टम् , इत्यतः परमात्मैवायं सम्यग्दर्शनविषयभूत ईक्षतिकर्मत्वेन व्यपदिष्ट इति गम्यते एव चेह परपुरुषशब्दाभ्यामभिध्यातव्यः प्रत्यभिज्ञायतेन्वभिध्याने परः पुरुष उक्तः, ईक्षणे तु परात्परःकथमितर इतरत्र प्रत्यभिज्ञायत इतित्रोच्यतेपरपुरुषशब्दौ तावदुभयत्र साधारणौ चात्र जीवघनशब्देन प्रकृतोऽभिध्यातव्यः परः पुरुषः परामृश्यते; येन तस्मात् परात्परोऽयमीक्षितव्यः पुरुषोऽन्यः स्यात्कस्तर्हि जीवघन इति, उच्यतेघनो मूर्तिः, जीवलक्षणो घनः जीवघनःसैन्धवखिल्यवत् यः परमात्मनो जीवरूपः खिल्यभाव उपाधिकृतः, परश्च विषयेन्द्रियेभ्यः, सोऽत्र जीवघन इतिअपर आह — ‘ सामभिरुन्नीयते ब्रह्मलोकम्इत्यतीतानन्तरवाक्यनिर्दिष्टो यो ब्रह्मलोकः परश्च लोकान्तरेभ्यः, सोऽत्र जीवघन इत्युच्यतेजीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोकनिवासिनि सङ्घातोपपत्तेर्भवति ब्रह्मलोको जीवघनःतस्मात्परो यः परमात्मा ईक्षणकर्मभूतः, एवाभिध्यानेऽपि कर्मभूत इति गम्यते । ‘परं पुरुषम्इति विशेषणं परमात्मपरिग्रह एवावकल्पतेपरो हि पुरुषः परमात्मैव भवति यस्मात्परं किञ्चिदन्यन्नास्ति; ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःइति श्रुत्यन्तरात् । ‘परं चापरं ब्रह्म यदोंकारःइति विभज्य, अनन्तरमोंकारेण परं पुरुषमभिध्यातव्यं ब्रुवन् , परमेव ब्रह्म परं पुरुषं गमयति । ‘यथा पादोदरस्त्वचा विनिर्मुच्यत एवं वै पाप्मना विनिर्मुक्तःइति पाप्मविनिर्मोकफलवचनं परमात्मानमिहाभिध्यातव्यं सूचयतिअथ यदुक्तं परमात्माभिध्यायिनो देशपरिच्छिन्नं फलं युज्यत इति, अत्रोच्यतेत्रिमात्रेणोंकारेणालम्बनेन परमात्मानमभिध्यायतः फलं ब्रह्मलोकप्राप्तिः, क्रमेण सम्यग्दर्शनोत्पत्तिः, — इति क्रममुक्त्यभिप्रायमेतद्भविष्यतीत्यदोषः ॥ १३ ॥

सूत्रे सशब्द ईश्वरपर इति प्रतिज्ञतत्वेन तं व्याचष्टे

परमेवेति ।

स उपासक एतस्माद्धिरण्यगर्भात्परं पुरुषं ब्रह्माहमितीक्षत इत्यर्थः ।

नन्वीक्षणविषयोऽप्यपरोस्तु, तत्राह

तत्राभिध्यायतेरिति ।

नन्वीक्षणं प्रमात्वाद्विषयसत्यतामपेक्षत इति भवतु सत्यः पर ईक्षणीयः । ध्यातव्यस्त्वसत्योऽपरः किं न स्यादित्यत आह

स एवेति ।

श्रुतिभ्यां प्रत्यभिज्ञानात्स एवायमिति सौत्रः सशब्दो व्याख्यातः । अत्रैवं सूत्रयोजना ओङ्कारे यो ध्येयः स पर एवात्मा, वाक्यशेषे ईक्षणीयत्वोक्तेः । अत्र च श्रुतिप्रत्यभिज्ञानात्स एवायमिति ।

ननु शब्दभेदान्न प्रत्यभिज्ञेति शङ्कते

नन्विति ।

परात्पर इति शब्दभेदमङ्गीकृत्य श्रुतिभ्यामुक्तप्रत्यभिज्ञाया अविरोधमाह

अत्रेति ।

ननु 'एतस्माज्जीवघनात्परात्' इत्येतत्पदेनोपक्रान्तध्यातव्यपरामर्शादीक्षणीयः परात्मा ध्येयादन्य इत्यत आह

न चात्रेति ।

ध्यानस्य तत्फलेक्षणस्य च लोके समानविषयत्वाद्ध्येय एवेक्षणीयः । एवं चोपक्रमोपसंहारयोरेकवाक्यता भवतीति भावः ।

''स सामभिरून्नीयते ब्रह्मलोकम्” 'स एतस्माज्जीवघनात्' इत्येतत्पदेन संनिहिततरो ब्रह्मलोकस्वामी परामृश्यत इति प्रश्नपूर्वकं व्याचष्टे

कस्तर्हीत्यादिना ।

'मूर्तौ घनः' इति सूत्रादिति भावः । सैन्धवखिल्यो लवणपिण्डः । खिल्यवदल्पो भावः परिच्छेदो यस्य स खिल्यभावः ।

एतत्पदेन ब्रह्मलोको वा परामृश्यत इत्याह

अपर इति ।

जीवघनशब्दस्य ब्रह्मलोके लक्षणां दर्शयति

जीवानां हीति ।

व्यष्टिकरणाभिमानिनां जीवानां घनः सङ्घातो यस्मिन्सर्वकरणाभिमानिनि स जीवघनः तत्स्वामिकत्वात्परम्परासम्बन्धेन लोको लक्ष्य इत्यर्थः । तस्मात्परः सर्वलोकातीतः शुद्ध इत्यर्थः ।

परपुरुषशब्दस्य परमात्मनि मुख्यत्वाच्च स एव ध्येय इत्याह

परमिति ।

यस्मात्परं नापरमस्ति किञ्चित्स एवं मुख्यः परः न तु पिण्डात्परः सूत्रात्मेत्यर्थः ।

किञ्च परशब्देनोपक्रमे निश्चितं परं ब्रह्मैवात्र वाक्यशेषे ध्यातव्यमित्याह

परं चापरं चेति ।

पापनिवृत्तिलिङ्गाच्चेत्याह

यथेति ।

पादोदरः सर्पः ।

ओङ्कारे परब्रह्मोपासनया सूर्यद्वारा ब्रह्मलोकं गत्वा परब्रह्मेक्षित्वा तदेव शान्तमभयं परं प्राप्नोतीत्यविरोधमाह

अत्रोच्यत इति ।

एवमेकवाक्यतासमर्थनप्रकरणानुगृहीतपरपुरुषश्रुतिभ्यां परब्रह्मप्रत्यभिज्ञया ब्रह्मलोकप्राप्तिलिङ्गं बाधित्वा वाक्यं प्रणवध्येये ब्रह्मणि समन्वितमिति सिद्धम् ॥ १३ ॥