ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्रसिद्धेश्च ॥ १७ ॥
इतश्च परमेश्वर एवदहरोऽस्मिन्नन्तराकाशःइत्युच्यते; यत्कारणमाकाशशब्दः परमेश्वरे प्रसिद्धःआकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८ । १४ । १) सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’ (छा. उ. १ । ९ । १) इत्यादिप्रयोगदर्शनात्जीवे तु क्वचिदाकाशशब्दः प्रयुज्यमानो दृश्यतेभूताकाशस्तु सत्यामप्याकाशशब्दप्रसिद्धौ उपमानोपमेयभावाद्यसम्भवान्न ग्रहीतव्य इत्युक्तम् ॥ १७ ॥

आ समन्तात्काशते दीप्यत इति स्वयञ्ज्योतिषि ब्रह्मण्याकाशशब्दस्य विभुत्वगुणतो वा प्रसिद्धिः प्रयोगप्राचुर्यम् ॥ १७ ॥