ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ १८ ॥
यदि वाक्यशेषबलेन दहर इति परमेश्वरः परिगृह्येत, अस्ति इतरस्यापि जीवस्य वाक्यशेषे परामर्शःअथ एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच’ (छा. उ. ८ । ३ । ४) इतिअत्र हि सम्प्रसादशब्दः श्रुत्यन्तरे सुषुप्तावस्थायां दृष्टत्वात्तदवस्थावन्तं जीवं शक्नोत्युपस्थापयितुम् , नार्थान्तरम्तथा शरीरव्यपाश्रयस्यैव जीवस्य शरीरात्समुत्थानं सम्भवति, थाकाशव्यपाश्रयाणां वाय्वादीनामाकाशात्समुत्थानम् , तद्वत्यथा चादृष्टोऽपि लोके परमेश्वरविषय आकाशशब्दः परमेश्वरधर्मसमभिव्याहारात् आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८ । १४ । १) इत्येवमादौ परमेश्वरविषयोऽभ्युपगतः, एवं जीवविषयोऽपि भविष्यतितस्मादितरपरामर्शात्दहरोऽस्मिन्नन्तराकाशःइत्यत्र एव जीव उच्यत इति चेत्नैतदेवं स्यात्कस्मात् ? असम्भवात् हि जीवो बुद्ध्याद्युपाधिपरिच्छेदाभिमानी सन् आकाशेनोपमीयेत चोपाधिधर्मानभिमन्यमानस्यापहतपाप्मत्वादयो धर्माः सम्भवन्तिप्रपञ्चितं चैतत्प्रथमसूत्रेअतिरेकाशङ्कापरिहाराय अत्र तु पुनरुपन्यस्तम्पठिष्यति चोपरिष्टात्अन्यार्थश्च परामर्शः’ (ब्र. सू. १ । ३ । २०) इति ॥ १‍८ ॥

यदि 'एष आत्मापहतपाप्मा' इत्यादिवाक्यशेषबलेन दहरः परस्तर्हि जीवोऽपीत्याशङ्क्य निषेधति

इतरेति ।

जीवस्यापि वाक्यशेषमाह

अथेति ।

दहरोक्त्यनन्तरं मुक्तोपसृप्यं शुद्धं ब्रह्मोच्यते । य एष सम्प्रसादो जीवोऽस्मात्कार्यकरणसङ्घातात्सम्यगुत्थाय आत्मानं तस्माद्विविच्य विविक्तमात्मानं स्वेन ब्रह्मरूपेणाभिनिष्पद्य साक्षात्कृत्य तदेव प्रत्यक्परं ज्योतिरूपसम्पद्यते प्राप्नोतीति व्याख्येयम् । यथा मुखं व्यादाय स्वपितीति वाक्यं सुप्त्वा मुखं व्यादत्ते इति व्याख्यायते तद्वत् ।

ज्योतिषोऽनात्मत्वं निरस्यति

एष इति ।

'सम्प्रसादे रत्वाचरित्वा’ इति श्रुत्यन्तरम् ।

अवस्थावदुत्थानमपि जीवस्य लिङ्गमित्याह

तथेति ।

तदाश्रितस्य तस्मात्समुत्थाने दृष्टान्तः

यथेति ।

ननु क्वाप्याकाशशब्दो जीवे न दृष्ट इत्याशङ्क्योक्तावस्थोत्थानलिङ्गबलात्कल्प्य इत्याह

यथा चेति ।

नियामकाभावाज्जीवो दहरः किं न स्यादिति प्राप्ते नियामकमाह

नैतदित्यादिना ।

दहरे श्रुतधर्माणामसम्भवान्न जीवो दहर इत्यर्थः ।

तर्हि पुनरुक्तिः, तत्राह

अतिरेकेति ।

उत्तराच्चेत्याधिकाशङ्कानिरासार्थमित्यर्थः ।

का तर्हि जीवपरामर्शस्य गतिः, तत्राह

पठिष्यतीति ।

जीवस्य स्वापस्थानभूतब्रह्मज्ञानार्थोऽयं परामर्श इति वक्ष्यते ॥ १८ ॥