असम्भवादिति हेतोरसिद्धिमाशङ्क्य परिहरति
उत्तराच्चेदिति ।
सूत्रनिराकृताया जीवाशङ्कायाः प्रजापतिवाक्यबलात्पुनः समुत्थानं क्रियते । तत्र जीवस्यैवापहतपाप्मत्वादिग्रहणेनासम्भवासिद्धेरित्यर्थः ।
कथं तत्र जीवोक्तिः, तत्राह
तत्रेत्यादिना ।
यद्यप्युपक्रमे जीवशब्दो नास्ति तथाप्यपहतपाप्मत्वादिगुणकमात्मानमुपक्रम्य तस्य जाग्रदाद्यवस्थात्रयोपन्यासादवस्थालिङ्गेन जीवनिश्चयात्तस्यैव ते गुणाः सम्भवन्तीति समुदायार्थः ।
इन्द्रं प्रजापतिर्बूते
य एष इति ।
प्राधान्यादक्षिग्रहणं सर्वैरिन्द्रियैर्विषयदर्शनरूपजाग्रदवस्थापन्नमित्याह
द्रष्टारमिति ।
महीयमानः वासनामयैर्विषयैः पूज्यमान इति स्वप्नपर्याये, तद्यत्रेति सुषुप्तिपर्याये च जीवमेव प्रजापतिर्व्याचष्ट इत्यन्वयः । यत्र काले तदेतत्स्वपनं यथा स्यात्तथा सुप्तः, सम्यकस्तो निरस्तः करणग्रामो यस्य स समस्तः, अत एवोपहृतकरणत्वात्तत्कृतकालुष्यहीनः सम्प्रसन्नः, स्वप्नं प्रपञ्चमज्ञानमात्रत्वेन विलापयति अतोऽज्ञानसत्त्वात्मुक्ताद्विलक्षणः प्राज्ञ एष स्वचैतन्येन कारणशरीरसाक्षी तस्य साक्ष्यस्य सत्तास्फूर्तिप्रदत्वादात्मेत्यर्थः ।
चतुर्थपर्याये ब्रह्मोक्तेस्तस्यैवापहतपाप्मत्वादिगुणा इत्याशङ्क्य तस्यापि पर्यायस्य जीवत्वमाह
नाहेति ।
अहेति निपातः खेदार्थे ।
खिद्यमानो हीन्द्र उवाच, न खलु सुप्तः पुमानयं सम्प्रति सुषुप्त्यवस्थायामयं देवदत्तोऽहमित्येवमात्मानं जानाति । नो एव नैवेमानि भूतानि जानाति किन्तु विनाशमेव प्राप्तो भवति, नाहमत्र भोग्यं पश्यामीति दोषमुपलभ्य पुनः प्रजापतिमुपससार । तं दोषं श्रुत्वा प्रजापतिराह
एतमिति ।
एतस्मात्प्रकृतादात्मनोऽन्यत्रान्यं न व्याख्यास्यामीत्युपक्रम्य 'मघवन्मर्त्यं वा इदं शरीरम्'इति निन्दापूर्वकं जीवमेव दर्शयतीत्यर्थः । तस्मात्प्रजापतिवाक्यात् । अतः सम्भवासिद्धेः ।
सिद्धान्तयति
तं प्रतीति ।
अवस्थात्रयशोधनेनाविर्भूतत्वं शोधितत्वमर्थस्य वाक्योत्थवृत्त्यभिव्यक्तत्वमित्यर्थः ।
तर्हि सूत्रे पुंलिङ्गेन जीवोक्तिः कथम् , ज्ञानेन जीवत्वस्य निवृत्तत्वादित्यत आह
भूतपूर्वेति ।
ज्ञानात्पूर्वमविद्यातत्कार्यप्रतिबिम्बितत्वरूपं जीवत्वमभूदिति कृत्वा ज्ञानानन्तरं ब्रह्मरूपोऽपि जीवनाम्नोच्यत इत्यर्थः ।
विश्वतैजसप्राज्ञतुरीयपर्यायचतुष्टयात्मकप्रजापतिवाक्यस्य तात्पर्यमाह
एतदिति ।
जन्मानाशवत्त्वात् ।
प्रतिबिम्बवद्बिम्बदेहो नात्मेति ज्ञापनार्थं प्रजापतिरिन्द्रविरोचनौ प्रत्युवाच, उदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे ब्रूतमित्यादि ब्राह्मणेनेत्याह
उदशरावेति ।
उदकपूर्णे शरावे प्रतिबिम्बात्मानं देहं दृष्ट्वा स्वस्याज्ञातं यत्तन्मह्यं वाच्यमित्युक्तश्रुत्यर्थः । व्युत्थाप्य विचार्य । अभिनिष्पद्यत इत्यत्रैतदुक्तं भवतीति सम्बन्धः ।
किमुक्तमित्यत आह
यदस्येति ।
जीवत्वरूपेण जीवं न व्याचष्टे, लोकसिद्धत्वात्, किन्तु तमनूद्य परस्परव्यभिचारिणीभ्योऽवस्थाभ्यो विविच्य ब्रह्मस्वरूपं बोधयति, अतो यद्ब्रह्म तदेवापहतपाप्मत्वादिधर्मकं न जीव इत्युक्तं भवति, शोधितस्य ब्रह्माभेदेन तद्धर्मोक्तेरित्यर्थः । एवमवस्थोपन्यासस्य विवेकार्थत्वान्न जीवलिङ्गत्वम् , 'एतदमृतमभयमेतब्रह्म' इति लिङ्गोपेतश्रुतिविरोधादितिमन्तव्यम् ।
ननु जीवत्वब्रह्मत्वविरुद्धधर्मवतोः कथमभेदः, तत्राह
तदेवेति ।
अन्वयव्यतिरेकाभ्यां जीवत्वस्याविद्याकल्पितत्वादविरोध इति मत्वा दृष्टान्तेनान्वयमाह
यावदिति ।
व्यतिरेकमाह
यदेति ।
अविद्यायां सत्यां जीवत्वम् , वाक्योत्थप्रभोधात्तन्निवृत्तौ तन्निवृत्तिरित्याविद्यकं तदित्यर्थः ।
संसारित्वस्य कल्पितत्वे सिद्धं निगमयति
तदेव चास्येति ।
'समुत्थाय स्वेन रूपेणाभिनिष्पद्यते’ इति श्रुतिं व्याख्यातुमाक्षिपति
कथं पुनरित्यादिना ।
कूटस्थनित्यस्य स्वरूपमित्यन्वयः ।
मनःसङ्गिनो हि क्रियया मलनाशादभिव्यक्तिर्न तु कूटस्थस्यासङ्गिन इत्याह
सुवर्णेति ।
द्रव्यान्तरं पार्थिवो मलः । अभिभूतेत्यस्य व्याख्यानमनभिव्यक्तेति । असाधारणो भास्वरत्वादिः । अभिभावकः सौरालोकः ।
जीवस्वरूपस्याभिभवे बाधकमाह
दृष्टेति ।
'विज्ञानघन एव’ इति श्रुत्या चिन्मात्रस्तावदात्मा । तच्चैतन्यं चक्षुरादिजन्यवृत्तिव्यक्तं दृष्ट्यादिपदवाच्यं सत्व्यवहाराङ्गं जीवस्य स्वरूपं भवतीति तस्याभिभूतत्वे दृष्टो व्यवहारो विरुध्येत । हेत्वभावाद्व्यवहारो न स्यादित्यर्थः ।
अज्ञस्यापि स्वरूपं वृत्तिषु व्यक्तमित्यङ्गीकार्यम् , व्यवहारदर्शनादित्याह
तच्चेति ।
अन्यथेत्युक्तं स्फुटयति
तच्चेदिति ।
स्वरूपं चेज्ज्ञानिन एव व्यज्येत ज्ञानात्पूर्वं व्यवहारोच्छित्तिरित्यर्थः । अतः सदैव व्यक्तस्वरूपत्वादित्यर्थः ।
सदा वृत्तिषु व्यक्तस्य वस्तुतोऽसङ्गस्यात्मन आविद्यकदेहाद्यविवेकरूपस्य मलसङ्गस्य सत्त्वात्तद्विवेकापेक्षया समुत्थानादिश्रुतिरित्युत्तरमाह
अत्रेति ।
वेदना हर्षशोकादिः । अविविक्तमिवेति तादात्म्यस्य सङ्गस्य कल्पितत्वमुक्तम् ।
तत्र कल्पितसङ्गे दृष्टान्तः
यथेति ।
श्रुतिकृतमिति ।
त्वम्पदार्थश्रुत्या 'योऽयं विज्ञानमयः प्राणेषु' इत्याद्यया सिद्धमित्यर्थः ।
प्राणादिभिन्नशुद्धत्वम्पदार्थज्ञानस्य वाक्यार्थसाक्षात्कारः फलमित्याह
केवलेति ।
सशरीरत्वस्य सत्यत्वात्समुत्थानमुत्क्रान्तिरिति व्याख्येयं न विवेक इत्याशङ्क्याह
तथा विवेकेति ।
उक्तश्रुत्यनुसारेणेत्यर्थः । शरीरेष्वशरीरमवस्थितमिति श्रुतेरविवेकमात्रकल्पितं सशरीरत्वम् । अतो विवेक एव समुत्थानमित्यर्थः ।
ननु स्वकर्मार्जिते शरीरे भोगस्यापरिहार्यत्वात्कथं जीवत एव स्वरूपाविर्भाव इत्यत आह
शरीरस्थोऽपीति ।
अशरीरत्ववच्छरीरस्थस्यापि बन्धाभावस्मृतेर्जीवतो मुक्तिर्युक्तेत्यर्थः ।
अविरुद्धे श्रुत्यर्थे सूत्रशेषो युक्त इत्याह
तस्मादिति ।
अन्यादृशौ सत्यावित्यर्थः ।
ज्ञानाज्ञानकृतावाविर्भावतिरोभावाविति स्थिते भेदोऽप्यंशांशित्वकृतो निरस्त इत्याह
एवमिति ।
अंशादिशून्यत्वमसङ्गत्वम् । आत्मा द्रव्यत्वव्याप्यजातिशून्यः विभुत्वात् , व्योमवदित्यात्मैक्यसिद्धेर्भेदो मिथ्येत्यर्थः ।
प्रजापतिवाक्याच्च भेदो मिथ्येत्याकाङ्क्षापूर्वकमाह
कुतश्चेत्यादिना ।
एतद्भेदस्य सत्यत्वमेव नास्तीति कुत इत्यन्वयः ।
छायायां ब्रह्मदृष्टिपरमिदं वाक्यं नाभेदपरमित्यत आह
नापीति ।
यस्य ज्ञानात्कृतकृत्यता सर्वकामप्राप्तिस्तमात्मानमन्विच्छाव इति प्रवृत्तयोरिन्द्रविरोचनयोर्यद्यनात्मच्छायां प्रजापतिर्ब्रूयात्तदा मृषावादी स्यादित्यर्थः ।
प्रथमवत्द्वितीयादिपर्याये व्यावृत्तास्ववस्थासु अनुस्यूतात्मा ब्रह्मत्वेनोक्त इत्याह
तथेति ।
अवस्थाभेदेऽप्यनुस्यूतौ युक्तिमाह
किञ्चेति ।
सुषुप्तौ ज्ञातुर्व्यावृत्तिमाशङ्क्याह
तथा तृतीय इति ।
सषुप्तौ निर्विकल्पज्ञानरूप आत्मास्तीयत्र बृहदारण्यकश्रुतिमाह
नहीति ।
बुद्धेः साक्षिणो नाशो नास्ति, नाशकाभावादित्यर्थः ।
एतमवस्थाभिरसङ्गत्वेनोक्त आत्मैव तुरीयेऽपि ब्रह्मत्वेनोक्त इत्याह
तथेति ।
श्रुतेरेकदेशिव्याख्यां दूषयति
केचित्त्विति ।
जीवपरयोर्भदादिति भावः ।
श्रुतिबाधान्मैवमित्याह
तेषामिति ।
संनिहितो जीव एव सर्वनामार्थ इत्यर्थः ।
उक्तस्य पुनरुक्तौ भूय इति युज्यते । तव तु उपक्रान्तपरमात्मनश्चतुर्थ एवोक्तेस्तद्बाध इत्याह
भूय इति ।
लोकसिद्धजीवानुवादेन ब्रह्मत्वं बोध्यत इति स्वमतमुपसंहरति
तस्मादिति ।
व्याख्यानान्तरसम्भवादित्यर्थः । विलयनं शोधनम् । विद्यया महावाक्येनेति यावत् ।
ये तु संसारं सत्यमिच्छन्ति तेषामिदं शारीरकमेवोत्तरमित्याह
अपरे त्वित्यादिना ।
शारीरकस्यार्थं सङ्क्षेपेणोपदिशति
एक एवेति ।
अविद्यामाययोर्भेदं निरसितुं सामानाधिकरण्यम् , आवरणविक्षेपशक्तिरूपशब्दप्रवृत्तिनिमित्तभेदात्सहप्रयोगः । ब्रह्मैवाविद्यया संसरति न ततोऽन्यो जीव इति शारीरकार्थ इत्यर्थः ।
तर्हि सूत्रकारः किमिति भेदं ब्रूते, तत्राह
यस्त्त्विति ।
परमात्मनोऽसंसारित्वसिद्यर्थं जीवाद्भेदं द्रढयति । तस्यासंसारित्वनिश्चयाभावे तदभेदोक्तावपि जीवस्य संसारित्वानपायादित्यर्थः ।
अधिष्ठानस्य कल्पिताद्भेदेऽपि कल्पितस्याधिष्ठानान्न पृथक्सत्त्वमित्याह
जीवस्यत्विति ।
कल्पितभेदानुवादस्य फलमाह
एवं हीति ।
सूत्रेष्वभेदो नोक्त इति भ्रान्तिं निरस्यति
प्रतिपाद्यमिति ।
आत्मेति तूपगच्छन्तीत्यादिसूत्राण्यादिपदार्थः ।
नन्वद्वैतस्य शास्त्रार्थत्वे द्वैतापेक्षविधिविरोधः तत्राह
वर्णितश्चेति ।
अद्वैतमजानतः कल्पितद्वैताश्रया विधयो न विदुष इति सर्वमुपपन्नमित्यर्थः ॥ १९ ॥