ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अन्यार्थश्च परामर्शः ॥ २० ॥
अथ यो दहरवाक्यशेषे जीवपरामर्शो दर्शितःअथ एष सम्प्रसादः’ (छा. उ. ८ । ३ । ४) इत्यादिः, दहरे परमेश्वरे व्याख्यायमाने, जीवोपासनोपदेशः, नापि प्रकृतविशेषोपदेशः,इत्यनर्थकत्वं प्राप्नोतीत्यत आहअन्यार्थोऽयं जीवपरामर्शो जीवस्वरूपपर्यवसायी, किं तर्हि ? — परमेश्वरस्वरूपपर्यवसायीकथम् ? सम्प्रसादशब्दोदितो जीवो जागरितव्यवहारे देहेन्द्रियपञ्जराध्यक्षो भूत्वा, तद्वासनानिर्मितांश्च स्वप्नान्नाडीचरोऽनुभूय, श्रान्तः शरणं प्रेप्सुरुभयरूपादपि शरीराभिमानात्समुत्थाय, सुषुप्तावस्थायां परं ज्योतिराकाशशब्दितं परं ब्रह्मोपसम्पद्य, विशेषविज्ञानवत्त्वं परित्यज्य, स्वेन रूपेणाभिनिष्पद्यतेयदस्योपसम्पत्तव्यं परं ज्योतिः, येन स्वेन रूपेणायमभिनिष्पद्यते, एष आत्मापहतपाप्मत्वादिगुण उपास्यःइत्येवमर्थोऽयं जीवपरामर्शः परमेश्वरवादिनोऽप्युपपद्यते ॥ २० ॥

एवं प्रजापतिवाक्ये जीवानुवादेन ब्रह्मण एवापहतपाप्मत्वाद्युक्तेर्जीवे तदसम्भवान्न जीवो दहर इत्युक्तम् । तर्हि जीवपरामर्शस्य का गतिरित्यत आह

अन्यार्थश्चेति ।

सूत्रं व्याचष्टे

अथेत्यादिना ।

प्रकृते दहरे विशेषो गुणस्तदुपदेशोऽपि नेत्यर्थः ।

तत्र दहरवाक्यशेषरूपं सम्प्रसादवाक्यमाशङ्कापूर्वकं दहरब्रह्मपरत्वेन व्याचष्टे

कथमित्यादिना ॥ २० ॥