अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥
यदप्युक्तम् — ‘दहरोऽस्मिन्नन्तराकाशः’ इत्याकाशस्याल्पत्वं श्रूयमाणं परमेश्वरे नोपपद्यते, जीवस्य तु आराग्रोपमितस्याल्पत्वमवकल्पत इति; तस्य परिहारो वक्तव्यः । उक्तो ह्यस्य परिहारः — परमेश्वरस्याप्यापेक्षिकमल्पत्वमवकल्पत इति, ‘अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च’ (ब्र. सू. १ । २ । ७) इत्यत्र; स एवेह परिहारोऽनुसन्धातव्य इति सूचयति । श्रुत्यैव च इदमल्पत्वं प्रत्युक्तं प्रसिद्धेनाकाशेनोपमिमानया ‘यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ इति ॥ २१ ॥