यदि 'एष आत्मापहतपाप्मा' इत्यादिवाक्यशेषबलेन दहरः परस्तर्हि जीवोऽपीत्याशङ्क्य निषेधति
इतरेति ।
जीवस्यापि वाक्यशेषमाह
अथेति ।
दहरोक्त्यनन्तरं मुक्तोपसृप्यं शुद्धं ब्रह्मोच्यते । य एष सम्प्रसादो जीवोऽस्मात्कार्यकरणसङ्घातात्सम्यगुत्थाय आत्मानं तस्माद्विविच्य विविक्तमात्मानं स्वेन ब्रह्मरूपेणाभिनिष्पद्य साक्षात्कृत्य तदेव प्रत्यक्परं ज्योतिरूपसम्पद्यते प्राप्नोतीति व्याख्येयम् । यथा मुखं व्यादाय स्वपितीति वाक्यं सुप्त्वा मुखं व्यादत्ते इति व्याख्यायते तद्वत् ।
ज्योतिषोऽनात्मत्वं निरस्यति
एष इति ।
'सम्प्रसादे रत्वाचरित्वा’ इति श्रुत्यन्तरम् ।
अवस्थावदुत्थानमपि जीवस्य लिङ्गमित्याह
तथेति ।
तदाश्रितस्य तस्मात्समुत्थाने दृष्टान्तः
यथेति ।
ननु क्वाप्याकाशशब्दो जीवे न दृष्ट इत्याशङ्क्योक्तावस्थोत्थानलिङ्गबलात्कल्प्य इत्याह
यथा चेति ।
नियामकाभावाज्जीवो दहरः किं न स्यादिति प्राप्ते नियामकमाह
नैतदित्यादिना ।
दहरे श्रुतधर्माणामसम्भवान्न जीवो दहर इत्यर्थः ।
तर्हि पुनरुक्तिः, तत्राह
अतिरेकेति ।
उत्तराच्चेत्याधिकाशङ्कानिरासार्थमित्यर्थः ।
का तर्हि जीवपरामर्शस्य गतिः, तत्राह
पठिष्यतीति ।
जीवस्य स्वापस्थानभूतब्रह्मज्ञानार्थोऽयं परामर्श इति वक्ष्यते ॥ १८ ॥