ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अनुकृतेस्तस्य च ॥ २२ ॥
‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ (मु. उ. २ । २ । ११) इति समामनन्ति । तत्र यं भान्तमनुभाति सर्वं यस्य च भासा सर्वमिदं विभाति, स किं तेजोधातुः कश्चित् , उत प्राज्ञ आत्मेति विचिकित्सायां तेजोधातुरिति तावत्प्राप्तम् । कुतः ? तेजोधातूनामेव सूर्यादीनां भानप्रतिषेधात् । तेजःस्वभावकं हि चन्द्रतारकादि तेजःस्वभावक एव सूर्ये भासमाने अहनि न भासत इति प्रसिद्धम् । तथा सह सूर्येण सर्वमिदं चन्द्रतारकादि यस्मिन्न भासते, सोऽपि तेजःस्वभाव एव कश्चिदित्यवगम्यते । अनुभानमपि तेजःस्वभावक एवोपपद्यते, समानस्वभावकेष्वनुकारदर्शनात्; ‘गच्छन्तमनुगच्छति’ इतिवत् । तस्मात्तेजोधातुः कश्चिदित्येवं प्राप्ते ब्रूमः —

अनुकृतेस्तस्य च । मुण्डकवाक्यमुदाहरति

न तत्रेति ।

तस्मिन् ब्रह्मणि विषये न भाति, तं न भासयतीति यावत् ।

यदा चन्द्रभास्करादिर्न भासयति तदा अल्पदीप्तेरग्नेः का कथेत्याह

कुत इति ।

किञ्च सर्वस्य सूर्यादेस्तद्भास्यत्वान्न तद्भासकत्वमित्याह

तमेवेति ।

अनुगमनवदनुमानं स्वगतमिति शङ्कां निरस्यति

तस्येति ।

तत्रेति सप्तम्याः सति विषये च साधारण्यात्संशयमाह

तत्रेति ।

पूर्वत्रात्मश्रुत्यादिबलादाकाशशब्दस्य रूढित्यागादीश्वरे वृत्तिराश्रिता । तथेहापि सतिसप्तमीबलाद्वर्तमानार्थत्यागेन यस्मिन्सति सूर्यादयो न भास्यन्ति स तेजोविशेष उपास्य इति भविष्यदर्थे वृत्तिराश्रयणीया ।

अधुना भासमाने सूर्यादौ न भातीति विरोधादिति दृष्टान्तेन पूर्वपक्षयति

तेजोधातुरिति ।

तेजोधानम् , निर्गुणस्वयञ्ज्योतिरात्मज्ञानमित्युभयत्र फलम् ।

तेजोधातुत्वे लिङ्गमाह

तेजोधातूनामिति ।

यत्तेजसोऽभिभावकं तत्तेज इति व्याप्तिमाह

तेजःस्वभावकमिति ।

यस्मिन्सति यन्न भाति तदनु तद्भातीति विरुद्धमित्यत आह

अनुभानमिति ।

ततो निकृष्टभानं विवक्षितमिति भावः ।

मुख्यसम्भवे विवक्षानुपपत्तेः मुख्यानुभानलिङ्गात्सर्वभासकः परमात्मा स्वप्रकाशकोऽत्र ग्राह्य इति सिद्धान्तमाह

प्राज्ञ इति ।

प्राज्ञत्वं स्वप्रकाशकत्वं भासकत्वार्थमुक्तम् ।