ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अनुकृतेस्तस्य च ॥ २२ ॥
प्राज्ञ एवायमात्मा भवितुमर्हति । कस्मात् ? अनुकृतेः; अनुकरणमनुकृतिः । यदेतत् ‘तमेव भान्तमनुभाति सर्वम्’ इत्यनुभानम् , तत्प्राज्ञपरिग्रहेऽवकल्पते । ‘भारूपः सत्यसङ्कल्पः’ (छा. उ. ३ । १४ । २) इति हि प्राज्ञमात्मानमामनन्ति । न तु तेजोधातुं कञ्चित्सूर्यादयोऽनुभान्तीति प्रसिद्धम् । समत्वाच्च तेजोधातूनां सूर्यादीनां न तेजोधातुमन्यं प्रत्यपेक्षास्ति, यं भान्तमनुभायुः । न हि प्रदीपः प्रदीपान्तरमनुभाति । यदप्युक्तं समानस्वभावकेष्वनुकारो दृश्यत इति — नायमेकान्तो नियमः । भिन्नस्वभावकेष्वपि ह्यनुकारो दृश्यते; यथा सुतप्तोऽयःपिण्डोऽग्न्यनुकृतिरग्निं दहन्तमनुदहति, भौमं वा रजो वायुं वहन्तमनुवहतीति । ‘अनुकृतेः’ इत्यनुभानमसुसूचत् । ‘तस्य च’ इति चतुर्थं पादमस्य श्लोकस्य सूचयति । ‘तस्य भासा सर्वमिदं विभाति’ इति तद्धेतुकं भानं सूर्यादेरुच्यमानं प्राज्ञमात्मानं गमयति । ‘तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’ (बृ. उ. ४ । ४ । १६) इति हि प्राज्ञमात्मानमामनन्ति । तेजोन्तरेण सूर्यादितेजो विभातीत्यप्रसिद्धम् , विरुद्धं च । तेजोन्तरेण तेजोन्तरस्य प्रतिघातात् । अथवा न सूर्यादीनामेव श्लोकपरिपठितानामिदं तद्धेतुकं विभानमुच्यते । किं तर्हि ? ‘सर्वमिदम्’ इत्यविशेषश्रुतेः सर्वस्यैवास्य नामरूपक्रियाकारकफलजातस्य या अभिव्यक्तिः, सा ब्रह्मज्योतिःसत्तानिमित्ता; यथा सूर्यादिज्योतिःसत्तानिमित्ता सर्वस्य रूपजातस्याभिव्यक्तिः, तद्वत् । ‘न तत्र सूर्यो भाति’ इति च तत्रशब्दमाहरन्प्रकृतग्रहणं दर्शयति । प्रकृतं च ब्रह्म ‘यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्’ (मु. उ. २ । २ । ५) इत्यादिना; अनन्तरं च ‘हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः’ इति । कथं तज्ज्योतिषां ज्योतिरित्यत इदमुत्थितम् — ‘न तत्र सूर्यो भाति’ इति । यदप्युक्तम् सूर्यादीनां तेजसां भानप्रतिषेधस्तेजोधातावेवान्यस्मिन्नवकल्पते, सूर्य इवेतरेषामिति; तत्र तु स एव तेजोधातुरन्यो न सम्भवतीत्युपपादितम् । ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पते । यतः — यदुपलभ्यते तत्सर्वं ब्रह्मणैव ज्योतिषोपलभ्यते । ब्रह्म तु नान्येन ज्योतिषोपलभ्यते, स्वयंज्योतिःस्वरूपत्वात् , येन सूर्यादयस्तस्मिन्भायुः । ब्रह्म हि अन्यद्व्यनक्ति, न तु ब्रह्मान्येन व्यज्यते, ‘आत्मनैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ६) ‘अगृह्यो न हि गृह्यते’ (बृ. उ. ४ । २ । ४) इत्यादिश्रुतिभ्यः ॥ २२ ॥

तत्र श्रुतिमाह

भारूप इति ।

मानाभावाच्च तेजोधातुर्न ग्राह्य इत्याह

न त्विति ।

किञ्च सूर्यादयस्तेजोन्तरभानमनु न भान्ति, तेजस्त्वात् , प्रदीपवदित्याह

समत्वाच्चेति ।

योऽयमनुकरोति स तज्जातीय इति नियमो नास्तीत्याह

नायमेकान्त इति ।

पौनरुक्त्यमाशङ्क्योक्तानुवादपूर्वकं सूत्रोक्तं हेत्वन्तरं व्याचष्टे

अनुकृतेरिति ।

'तमेव भान्तम्’ इत्येवकारोक्तं तद्भानं विना सर्वस्य पृथग्भानाभावरूपमनुभानमनुकृतेरित्यनेनोक्तम्

तस्य चेति ।

सर्वभासकत्वमुक्तमित्यपौनरुक्त्यमित्यर्थः ।

आत्मनः सूर्यादिभासकत्वं श्रुत्यन्तरप्रसिद्धमविरुद्धं चेत्याह

तद्देवा इति ।

सर्वशब्दः प्रकृतसूर्यादिवाचकत्वेन व्याख्यातः ।

सम्प्रति तस्यासङ्कुचद्वृत्तितां मत्वार्थान्तरमाह

अथवेति ।

तत्रेति सर्वनामश्रुत्या प्रकृतं ब्रह्म ग्राह्यमित्याह

न तत्र सूर्य इति ।

किञ्च स्पष्टब्रह्मपरपूर्वमन्त्राकाङ्क्षापूरकत्वादयं मन्त्रो ब्रह्मपर इत्याह

अनन्तरं चेति ।

हिरण्मये ज्योतिर्मये अन्नमयाद्यपेक्षया परे कोशे आनन्दमयाख्ये पुच्छशब्दितं ब्रह्म विरजमागन्तुकमलशून्यम् , निष्कलं निरवयवम् , शुभ्रं नैसर्गिकमलशून्यम् , सूर्यादिसाक्षिभूतं ब्रह्मवित्प्रसिद्धमित्यर्थः ।

सतिसप्तमीपक्षमनुवदति

यदपीति ।

सूर्याद्यभिभावकतेजोधातौ प्रामाणिके तस्येह ग्रहणशङ्का स्यात् , न तत्र प्रमाणमस्तीत्याह

तत्रेति ।

सिद्धान्ते तत्रेति वाक्यार्थः ।

कथमित्याशङ्क्याह

ब्रह्मण्यपीति ।

सतिसप्तमीपक्षे न भातीति श्रुतं वर्तमानत्वं त्यक्त्वा तस्मिन्सति न भास्यन्तीत्यश्रुतभविष्यत्त्वं कल्पनीयं प्रत्यक्षविरोधनिरासाय । विषयसप्तमीपक्षे तु न भासयतीत्यश्रुतणिजध्याहारमात्रं कल्प्यं न श्रुतत्याग इति लाघवम् , अतो ब्रह्मणि विषये सूर्यादेर्भासकत्वनिषेधेन ब्रह्मभास्यत्वमुच्यत इत्यर्थः । येनान्याभास्यत्वेन हेतुना सूर्यादयस्तस्मिन्ब्रह्मणि विषये भासकाः स्युस्तथा तु ब्रह्मान्येन नोपलभ्यते स्वप्रकाशत्वादिति योजना ।

उक्तमेव श्रुत्यन्तरेण द्रढयति

ब्रह्मेति ।

स्वप्रकाशत्वेऽन्याभास्यत्वे च श्रुतिद्वयम् । ग्रहणायोग्यत्वादग्राह्य इत्यर्थः ॥ २२ ॥