ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अपि च स्मर्यते ॥ २३ ॥
अपि चेदृग्रूपत्वं प्राज्ञस्यैवात्मनः स्मर्यते भगवद्गीतासु तद्भासयते सूर्यो शशाङ्को पावकःयद्गत्वा निवर्तन्ते तद्धाम परमं मम’ (भ. गी. १५ । ६) इतियदादित्यगतं तेजो जगद्भासयतेऽखिलम्यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’ (भ. गी. १५ । १२) इति ॥ २३ ॥

णिजध्याहारपक्षे स्मृतिबलमप्यस्तीत्याह

अपिचेति ।

सूत्रं व्याचष्टे

अपिचेति ।

अभास्यत्वे सर्वभासकत्वे च श्लोकद्वयं द्रष्टव्यम् । तस्मादनुभानमन्त्रो ब्रह्मणि समन्वित इति सिद्धम् ॥ २३ ॥