ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शब्दादेव प्रमितः ॥ २४ ॥
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठतिइति श्रूयते; तथा अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकःईशानो भूतभव्यस्य वाद्य श्वःएतद्वै तत्’ (क. उ. २ । १ । १३) इति तत्र योऽयमङ्गुष्ठमात्रः पुरुषः श्रूयते, किं विज्ञानात्मा, किं वा परमात्मेति संशयःतत्र परिमाणोपदेशात्तावद्विज्ञानात्मेति प्राप्तम् ह्यनन्तायामविस्तारस्य परमात्मनोऽङ्गुष्ठपरिमाणमुपपद्यतेविज्ञानात्मनस्तूपाधिमत्त्वात्सम्भवति कयाचित्कल्पनयाङ्गुष्ठमात्रत्वम्स्मृतेश्चअथ सत्यवतः कायात्पाशबद्धं वशं गतम्अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्’ (म. भा. ३ । २९७ । १७) इति हि परमेश्वरो बलात् यमेन निष्क्रष्टुं शक्यःतेन तत्र संसारी अङ्गुष्ठमात्रो निश्चितः एवेहापीत्येवं प्राप्ते ब्रूमः

शब्दादेव प्रमितः । काठकवाक्यं पठति

अङ्गुष्ठेति ।

पुरुषः पूर्णोऽप्यात्मनि देहमध्ये अङ्गुष्ठमात्रे हृदये तिष्ठतीत्यङ्गुष्ठमात्र इत्युच्यते, तस्यैव परमात्मत्ववादिवाक्यान्तरमाह

तथेति ।

अधूमकमिति पठनीयम् ।

योऽङ्गुष्ठमात्रो जीवः स वस्तुतो निर्धूमज्योतिर्वन्निर्मलप्रकाशरूप इति तमर्थं संशोध्य तस्य ब्रह्मत्वमाह

ईशान इति ।

तस्याद्वितीयत्वमाह

स एवेति ।

कालत्रयेऽपि स एवास्ति नान्यत्किञ्चित् । यन्नचिकेतसा पृष्टं ब्रह्म तदेतदेवेत्यर्थः ।

परिमाणेशानशब्दाभ्यां संशयमाह

तत्रेति ।

यथानुभानादिलिङ्गात्णिजध्याहरेण सूर्याद्यगोचरो ब्रह्मेत्युक्तं तथा प्रथमश्रुतपरिमाणलिङ्गाज्जीवप्रतीतावीशानोऽस्मीति ध्यायेदिति विध्यध्याहरेण ध्यानपरं वाक्यमिति पूर्वपक्षयति

तत्र परिमाणेति ।

पूर्वपक्षे ब्रह्मदृष्ट्या जीवोपास्तिः, सिद्धान्ते तु प्रत्यग्ब्रह्मैक्यज्ञानं फलमिति मन्तव्यम् । आयामो दैर्घ्यम् , विस्तारो महत्त्वमिति भेदः ।

कयाचिदिति ।

अङ्गुष्ठमात्रहृदयस्य विज्ञानशब्दितबुद्ध्यभेदाध्यासकल्पनयेत्यर्थः ।

स्मृतिसंवादादप्यङ्गुष्ठमात्रो जीवैत्याह

स्मृतेश्चेति ।

अथ मरणानन्तरं यमपाशौर्बद्धं कर्मवशं प्राप्तमित्यर्थः ।

तत्रापीश्वरः किं न स्यादित्यत आह

नहीति ।

'प्रभवति संयमने ममापि विष्णुः’ इति यमस्येश्वरनियम्यत्वस्मरणादिति भावः ।