ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥
किमात्मकं पुनः शब्दमभिप्रेत्येदं शब्दप्रभवत्वमुच्यते ? स्फोटम् इत्याहवर्णपक्षे हि तेषामुत्पन्नप्रध्वंसित्वान्नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यनुपपन्नं स्यात्उत्पन्नप्रध्वंसिनश्च वर्णाः, प्रत्युच्चारणमन्यथा चान्यथा प्रतीयमानत्वात्तथा ह्यदृश्यमानोऽपि पुरुषविशेषोऽध्ययनध्वनिश्रवणादेव विशेषतो निर्धार्यते — ‘देवदत्तोऽयमधीते, यज्ञदत्तोऽयमधीतेइति चायं वर्णविषयोऽन्यथात्वप्रत्ययो मिथ्याज्ञानम् , बाधकप्रत्ययाभावात् वर्णेभ्योऽर्थावगतिर्युक्ता ह्येकैको वर्णोऽर्थं प्रत्याययेत् , व्यभिचारात् वर्णसमुदायप्रत्ययोऽस्ति, क्रमवत्वाद्वर्णानाम्पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितोऽन्त्यो वर्णोऽर्थं प्रत्याययिष्यतीति यद्युच्येत, तन्नसम्बन्धग्रहणापेक्षो हि शब्दः स्वयं प्रतीयमानोऽर्थं प्रत्याययेत् , धूमादिवत् पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितस्यान्त्यवर्णस्य प्रतीतिरस्ति, अप्रत्यक्षत्वात्संस्काराणाम्कार्यप्रत्यायितैः संस्कारैः सहितोऽन्त्यो वर्णोऽर्थं प्रत्याययिष्यतीति चेत् , संस्कारकार्यस्यापि स्मरणस्य क्रमवर्तित्वात्तस्मात्स्फोट एव शब्दः चैकैकवर्णप्रत्ययाहितसंस्कारबीजेऽन्त्यवर्णप्रत्ययजनितपरिपाके प्रत्ययिन्येकप्रत्ययविषयतया झटिति प्रत्यवभासते चायमेकप्रत्ययो वर्णविषया स्मृतिःवर्णानामनेकत्वादेकप्रत्ययविषयत्वानुपपत्तेःतस्य प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वान्नित्यत्वम् , भेदप्रत्ययस्य वर्णविषयत्वात्तस्मान्नित्याच्छब्दात्स्फोटरूपादभिधायकात्क्रियाकारकफललक्षणं जगदभिधेयभूतं प्रभवतीति

अतः प्रभवत्वप्रसङ्गाच्छब्दस्वरूपं वक्तुमुक्तमाक्षिपति

किमात्मकमिति ।

वर्णरूपं तदतिरिक्तस्फोटरूपं वेति किंशब्दार्थः ।

तत्र वर्णानामनित्यत्वात्स्फोटस्य चासत्त्वान्न जगद्धेतुत्वमित्याक्षेपे द्वितीयपक्षं वैयाकरणो गृह्णाति

स्फोटमिति ।

स्फुट्यते वर्णैर्व्यज्यत इति स्फोटोवर्णाभिव्यङ्ग्योऽर्थस्तस्य व्यञ्जको गवादिशब्दो नित्यस्तमभिप्रेत्येदमुच्यत इति पूर्वेणान्वयः ।

स एवाद्यपक्षं दूषयति

वर्णेति ।

सोऽयं गकार इति प्रत्यभिज्ञया वर्णनित्यत्वसिद्धेर्नानुपपत्तिरित्यत आह

उत्पन्नेति ।

तारत्वमन्द्रत्वादिविरुद्धधर्मवत्त्वेन तारो गकारो मन्द्रो गकार इति प्रतीयमानगकारस्य भेदानुमानात्प्रत्यभिज्ञा गत्वजातिविषयेत्यर्थः ।

ननु विरुद्धधर्मज्ञानं ध्वन्युपाधिकं भ्रम इत्यत आह

नचेति ।

तथाच वर्णानामनित्यत्वान्न जगद्धेतुत्वमिति भावः ।

किञ्च तेषामर्थबोधकत्वायोगात्स्फोटोऽङ्गीकार्य इत्याह

नच वर्णेभ्य इत्यादिना ।

व्यभिचारादेकस्माद्वर्णादर्थप्रतीत्यदर्शनात् , वर्णान्तरवैयर्थ्यप्रसङ्गाच्चेत्यर्थः ।

तर्हि वर्णानां समुदायो बोधक इत्याशङ्क्य क्षणिकानां स नास्तीत्याह

नचेति ।

वर्णानां स्वतः साहित्याभावेऽपि संस्कारलक्षणापूर्वद्वारा साहित्यमाग्नेयादियागानामिवेति शङ्कते

पूर्वेति ।

किमयं संस्कारो वर्णैर्जनितोऽपूर्वाख्यः कश्चित् , उत वर्णानुभवजनितो भावनाख्यः । नाद्यः, मानाभावात् । किञ्चायमज्ञातो ज्ञातो वार्थधीहेतुः । नाद्य इत्याह

तन्नेति ।

संस्कारसहितः शब्दो ज्ञात एवार्थधीहेतुः, सम्बन्धग्रहणमपेक्ष्य बोधकत्वात् , धूमादिवदित्यर्थः ।

द्वितीये किं प्रत्यक्षेण ज्ञात उत कार्यलिङ्गेन । नाद्य इत्याह

नचेति ।

द्वितीयं शङ्कते

कार्येति ।

कार्यमर्थधीस्तस्यां जातायां संस्कारप्रत्ययः तस्मिञ्जाते सेति परस्पराश्रयेण दूषयति

नेति ।

पदार्थस्मरणस्यापि पदज्ञानान्तरभावित्वात्तेन संस्कारसहितान्त्यवर्णात्मकपदस्य ज्ञानं न युक्तमित्यक्षरार्थः । अपिशब्दः परस्पराश्रयद्योतनार्थः । एतेन भावानासंस्कारपक्षोऽपि निरस्तः । तस्य वर्णस्मृतिमात्रहेतुत्वेनार्थधीहेतुत्वायोगात् । न चान्त्यवर्णसाहित्यादर्थधीहेतुत्वम् , केवलसंस्कारस्य तु वर्णस्मृतिहेतुत्वमिति वाच्यम् , अर्थधीपूर्वकाले भावनाया ज्ञानाभावेनार्थधीहेतुत्वायोगात् । नच वर्णस्मरणेनानुमिता सा अन्त्यवर्णसहितार्थधीहेतुरिति वाच्यम् , तत्कार्यस्य क्रमिकस्य वर्णस्मरणस्याप्यन्त्यवर्णानुभवानन्तरभावित्वेन तेनानुमितभावनानामन्त्यवर्णसाहित्याभावादिति भावः ।

वर्णानामर्थबोधकत्वासम्भवे फलमाह

तस्मादिति ।

स्फोटेऽपि किं मानमित्याशङ्क्यैकं पदमिति प्रत्यक्षप्रमाणमित्याह

स चेति ।

यथा रत्नतत्त्वं बहुभिश्चाक्षुषप्रत्ययैः स्फुटं भासते तथा गवादिपदस्फोटो गकारद्येकैकवर्णकृतप्रत्ययैः स्फोटविषयैराहिताः संस्कारा बीजं यस्मिन् चित्ते तस्मिन् अन्त्यवर्णकृतप्रत्ययेन जनितः परिपाकोऽन्त्यः संस्कारोयस्मिंस्तस्मिन्प्रत्ययिनि चित्ते एकं गौरितिपदमिति प्रत्ययः प्रत्यक्षस्तद्विषयतया स्पष्टमवभासत इत्यर्थः । अनेन वर्णान्वयव्यतिरेकयोः स्फोटज्ञानेऽन्यथासिद्धिः । नचैकस्माद्वर्णात्सम्यक्स्फोटाभिव्यक्तिः, येन वर्णान्तरवैयर्थ्यं किन्तु रत्नवद्बहुप्रत्ययसंस्कृते चित्ते सम्यक्स्फोटाभिव्यक्तिरित्युक्तं भवति ।

नन्वेकपदमेकं वाक्यमिति प्रत्ययः पदवाक्यस्फोटयोर्न प्रमाणम् , तस्य वर्णसमूहालम्बनस्मृतित्वादित्याशङ्क्य निषेधति

न चेति ।

स्फोटस्य जगद्धेतुत्वार्थं नित्यत्वमाह

तस्य चेति ।

ननु तदेवेदं पदमिति प्रत्यभिज्ञा भ्रमः, उदात्तादिभेदप्रत्ययादित्यत आह

भेदेति ।