ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥
वर्णा एव तु शब्दःइति भगवानुपवर्षःननूत्पन्नप्रध्वंसित्वं वर्णानामुक्तम्; तन्न एवेति प्रत्यभिज्ञानात्सादृश्यात्प्रत्यभिज्ञानं केशादिष्विवेति चेत् , प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधानुपपत्तेःप्रत्यभिज्ञानमाकृतिनिमित्तमिति चेत् , व्यक्तिप्रत्यभिज्ञानात्यदि हि प्रत्युच्चारणं गवादिव्यक्तिवदन्या अन्या वर्णव्यक्तयः प्रतीयेरन् , तत आकृतिनिमित्तं प्रत्यभिज्ञानं स्यात् त्वेतदस्तिवर्णव्यक्तय एव हि प्रत्युच्चारणं प्रत्यभिज्ञायन्तेद्विर्गोशब्द उच्चारितःइति हि प्रतिपत्तिः; तु द्वौ गोशब्दावितिननु वर्णा अप्युच्चारणभेदेन भिन्नाः प्रतीयन्ते, देवदत्तयज्ञदत्तयोरध्ययनध्वनिश्रवणादेव भेदप्रतीतेरित्युक्तम्त्राभिधीयतेसति वर्णविषये निश्चिते प्रत्यभिज्ञाने, संयोगविभागाभिव्यङ्ग्यत्वाद्वर्णानाम् , अभिव्यञ्जकवैचित्र्यनिमित्तोऽयं वर्णविषयो विचित्रः प्रत्ययः, स्वरूपनिमित्तःअपि वर्णव्यक्तिभेदवादिनापि प्रत्यभिज्ञानसिद्धये वर्णाकृतयः कल्पयितव्याःतासु परोपाधिको भेदप्रत्यय इत्यभ्युपगन्तव्यम्तद्वरं वर्णव्यक्तिष्वेव परोपाधिको भेदप्रत्ययः, स्वरूपनिमित्तं प्रत्यभिज्ञानम्इति कल्पनालाघवम्एष एव वर्णविषयस्य भेदप्रत्ययस्य बाधकः प्रत्ययः, यत्प्रत्यभिज्ञानम्कथं ह्येकस्मिन्काले बहूनामुच्चारयतामेक एव सन् गकारो युगपदनेकरूपः स्यात्उदात्तश्चानुदात्तश्च स्वरितश्च सानुनासिकश्च निरनुनासिकश्चेतिअथवा ध्वनिकृतोऽयं प्रत्ययभेदो वर्णकृत इत्यदोषःकः पुनरयं ध्वनिर्नाम ? यो दूरादाकर्णयतो वर्णविवेकमप्रतिपद्यमानस्य कर्णपथमवतरति; प्रत्यासीदतश्च पटुमृदुत्वादिभेदं वर्णेष्वासञ्जयतिन्निबन्धनाश्चोदात्तादयो विशेषाः, वर्णस्वरूपनिबन्धनाः, वर्णानां प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वात्एवं सति सालम्बना उदात्तादिप्रत्यया भविष्यन्तिइतरथा हि वर्णानां प्रत्यभिज्ञायमानानां निर्भेदत्वात्संयोगविभागकृता उदात्तादिविशेषाः कल्प्येरन्संयोगविभागानां चाप्रत्यक्षत्वान्न तदाश्रया विशेषाः वर्णेष्वध्यवसातुं शक्यन्त इत्यतो निरालम्बना एव एते उदात्तादिप्रत्ययाः स्युःअपि नैवैतदभिनिवेष्टव्यम्उदात्तादिभेदेन वर्णानां प्रत्यभिज्ञायमानानां भेदो भवेदिति ह्यन्यस्य भेदेनान्यस्याभिद्यमानस्य भेदो भवितुमर्हति हि व्यक्तिभेदेन जातिं भिन्नां मन्यन्तेवर्णेभ्यश्चार्थप्रतीतेः सम्भवात् स्फोटकल्पनानर्थिका कल्पयाम्यहं स्फोटम् , प्रत्यक्षमेव त्वेनमवगच्छामि, एकैकवर्णग्रहणाहितसंस्कारायां बुद्धौ झटिति प्रत्यवभासनादिति चेत् , अस्या अपि बुद्धेर्वर्णविषयत्वात्एकैकवर्णग्रहणोत्तरकाला हीयमेका बुद्धिर्गौरिति समस्तवर्णविषया, नार्थान्तरविषयाकथमेतदवगम्यते ? यतोऽस्यामपि बुद्धौ गकारादयो वर्णा अनुवर्तन्ते, तु दकारादयःयदि ह्यस्या बुद्धेर्गकारादिभ्योऽर्थान्तरं स्फोटो विषयः स्यात् , ततो दकारादय इव गकारादयोऽप्यस्या बुद्धेर्व्यावर्तेरन् तु तथास्तितस्मादियमेकबुद्धिर्वर्णविषयैव स्मृतिःनन्वनेकत्वाद्वर्णानां नैकबुद्धिविषयतोपपद्यत इत्युक्तम् , तत्प्रति ब्रूमःसम्भवत्यनेकस्याप्येकबुद्धिविषयत्वम् , पङ्क्तिः वनं सेना दश शतं सहस्रमित्यादिदर्शनात्या तु गौरित्येकोऽयं शब्द इति बुद्धिः, सा बहुष्वेव वर्णेष्वेकार्थावच्छेदनिबन्धना औपचारिकी वनसेनादिबुद्धिवदेवअत्राहयदि वर्णा एव सामस्त्येन एकबुद्धिविषयतामापद्यमानाः पदं स्युः, ततो जारा राजा कपिः पिक इत्यादिषु पदविशेषप्रतिपत्तिर्न स्यात्; एव हि वर्णा इतरत्र चेतरत्र प्रत्यवभासन्त इतिअत्र वदामःसत्यपि समस्तवर्णप्रत्यवमर्शे यथा क्रमानुरोधिन्य एव पिपीलिकाः पङ्क्तिबुद्धिमारोहन्ति, एवं क्रमानुरोधिन एव हि वर्णाः पदबुद्धिमारोक्ष्यन्तितत्र वर्णानामविशेषेऽपि क्रमविशेषकृता पदविशेषप्रतिपत्तिर्न विरुध्यतेवृद्धव्यवहारे चेमे वर्णाः क्रमाद्यनुगृहीता गृहीतार्थविशेषसम्बन्धाः सन्तः स्वव्यवहारेऽप्येकैकवर्णग्रहणानन्तरं समस्तप्रत्यवमर्शिन्यां बुद्धौ तादृशा एव प्रत्यवभासमानास्तं तमर्थमव्यभिचारेण प्रत्याययिष्यन्तीति वर्णवादिनो लघीयसी कल्पनास्फोटवादिनस्तु दृष्टहानिः, अदृष्टकल्पना वर्णाश्चेमे क्रमेण गृह्यमाणाः स्फोटं व्यञ्जयन्ति स्फोटोऽर्थं व्यनक्तीति गरीयसी कल्पना स्यात्

आचार्यसम्प्रदायोक्तिपूर्वकं सिद्धान्तयति

वर्णा एवेति ।

वर्णातिरिक्तस्फोटात्मकशब्दस्यानुभवानारोहादित्यर्थः ।

सादृश्यदोषादियं भ्रान्तिरिति शङ्कते

सादृश्यादिति ।

वपनानन्तरं त एवेमे केशा इति धीर्भ्रान्तिरिति युक्तम् , भेदधीविरोधात् । स एवायं वर्ण इति धीस्तु प्रमैव, बाधकाभावादित्याह

नेति ।

गोत्वादिप्रत्यभिज्ञावद्वर्णेषु प्रत्यभिज्ञा गवादिविषयेति शङ्कते

प्रत्यभिज्ञानमिति ।

व्यक्तिभेदे सिद्धे प्रत्यभिज्ञाया जातिविषयत्वं स्यात् , यत्त्वया पीतं जलं तदेव मया पीतमित्यादौ । न तथेह व्यक्तिभेदः सिद्ध इति परिहरति

न । व्यक्तीति ।

न त्वेतदिति ।

व्यक्त्यन्यत्वज्ञानमित्यर्थः ।

उदात्तत्वादिविरुद्धधर्मत्वाद्व्यक्तिभेदोऽनुमानसिद्ध इत्यनुवदति

नन्विति ।

भेदप्रत्ययस्य कुम्भकूपाकाशभेदप्रत्ययवदौपाधिकभेदविषयत्वादन्यथासिद्धेरनन्यथासिद्धव्यक्त्यैक्यप्रत्यभिज्ञया निरपेक्षस्वरूपालम्बनया बाध इत्युत्तरमाह

अत्रेति ।

ताल्वादिदेशैः कोष्ठस्थवायुसंयोगविभागाभ्यां विचित्राभ्यां व्यङ्ग्यत्वाद्वर्णेषु वैचित्र्यधीरित्यर्थः ।

कल्पनागौरवाच्च वर्णेषु स्वतो भेदो नास्तीत्याह

अपिचेति ।

अनन्ता गकारादिव्यक्तयस्तासु प्रत्यभिज्ञानार्थं गत्वादिजातयस्तासु चोदात्तत्वादिभेदस्यौपाधिकत्वमिति कल्पनाद्वरं वर्णव्यक्तिभेदमात्रस्यौपाधिकत्वकल्पनमिति व्यक्त्यानन्त्यस्य जातीनां च कल्पनमयुक्तमित्यर्थः ।

ननु भेदस्य बाधकाभावान्नौपाधिकत्वमित्यत आह

एष इति ।

अस्तु तर्हि प्रत्ययद्वयप्रामाण्याय भेदाभेदयोः सत्यत्वम् , तत्राह

कथं हीति ।

उभयोरेकत्वविरोधाद्भेद औपाधिक एवेत्यर्थः ।

ननु वायुसंयोगादेरतीन्द्रियत्वान्न तद्गतवैचित्र्यस्योदात्तत्वादेर्वर्णेषु प्रत्यक्षारोपः सम्भवतीत्यरुचिं वदिष्यन्स्वमतमाह

अथवेति ।

ध्वनिधर्मा उदात्तत्वादयो ध्वन्यभेदाध्यासाद्वर्णेषु भान्तीत्यर्थः ।

प्रश्नपूर्वकं ध्वनिस्वरूपमाह

क इति ।

अवतरति स ध्वनिरिति शेषः । वर्णातिरिक्तः शब्दो ध्वनिरित्यर्थः ।

समीपं गतस्य पुंसस्तारत्वमन्दत्वादिधर्मान्स्वगतान्वर्णेषु स एवारोपयतीत्याह

प्रत्यासीदतश्चेति ।

आदिपदं विवृणोति

तदिति ।

नन्वव्यक्तवर्ण एव ध्वनिर्नातिरिक्त इत्यत आह

वर्णानामिति ।

प्रत्युच्चारणं वर्णा अनुवर्तन्ते ध्वनिर्व्यावर्तत इति भेद इत्यर्थः । अन्यथा वाचिके जपे वर्णेष्वव्यक्तेषु ध्वनिबुद्धिः स्यात् , दुन्दुभ्यादिध्वनौ शब्दत्वमात्रेण गृह्यमाणे अयमव्यक्तो वर्ण इति धीः स्यादिति मन्तव्यम् ।

एवं ध्वन्युपाधिकत्वे स्वमते गुणं वदन्वायूपाधिकत्वे पूर्वोक्तामरुचिं दर्शयति

एवंचेत्यादिना ।

अस्तु को दोषः, तत्राह

संयोगेति ।

वायुसंयोगादेरश्रावणत्वादित्यर्थः । तस्मात्श्रावणध्वनिरेवोदात्तत्वाद्यारोपोपाधिरिति भावः ।

एवं विरुद्धधर्मकध्वनीनां भेदेऽपि न तेष्वनुगता वर्णा भिद्यन्त इत्युक्तम् । तदेव दृष्टान्तेन द्रढयति

अपिचेति ।

यथा खण्डमुण्डादिविरुद्धानेकव्यक्तिष्वभिन्नं गोत्वं तथा ध्वनिषु वर्णा अभिन्ना एवेत्यर्थः । उदात्तादिर्ध्वनिस्तद्भेदेन हेतुना वर्णानामपीति योजना । प्रत्यभिज्ञाविरोधादित्यक्षरार्थः ।

यद्वा उदात्तत्वादिभेदविशिष्टतया प्रत्यभिज्ञायमानत्वाद्वर्णानां भेद इत्याशङ्कां दृष्टान्तेन निरस्यति

अपिचेति ।

वर्णानां स्थायित्वं प्रसाध्य तेषामेव वाचकत्वं वक्तुं स्फोटं विघटयति

वर्णेभ्यश्चेति ।

कल्पनामसहमान आशङ्कते

नेति ।

चक्षुषा दर्पणयुक्तायां बुद्धौ मुखवच्छ्रोत्रेण वर्णयुक्तायां बुद्धौ विनैव हेत्वन्तरं स्फोटः प्रत्यक्ष इत्याह

झटितीति ।

यस्यां संविदि योऽर्थो भासते सा तत्र प्रमाणम् ।

एकपदमिति बुद्धौ वर्णा एव स्फुरन्ति नातिरिक्तस्फोट इति न सा स्फोटे प्रमाणमित्याह

न । अस्या अपीत्यादिना ।

ननु गोपदबुद्धेः स्फोटो विषयो गकारादीनां तु व्यञ्जकत्वादनुवृत्तिरित्यत आह

यदि हीति ।

व्यङ्ग्यवह्निबुद्धौ व्यञ्जकधूमानुवृत्तेरदर्शनादित्यर्थः ।

वर्णसमूहालम्बनत्वोपपत्तेर्न स्फोटः कल्पनीयः, पदार्थान्तरकल्पनागौरवादित्याह

तस्मादिति ।

अनेकस्याप्यौपाधिकमेकत्वं युक्तमित्याह

सम्भवतीति ।

ननु तत्रैकदेशादिरूपाधिरस्ति, प्रकृते क उपाधिरित्यत आह

या त्विति ।

एकार्थे शक्तमेकं पदम् , प्रधानार्थ एकस्मिन् तात्पर्यवदेकं वाक्यमित्येकार्थसम्बन्धादेकत्वोपचार इत्यर्थः । न चैकपदत्वे ज्ञाते एकार्थज्ञानम् , अस्मिंज्ञाते तदित्यन्योन्याश्रय इति वाच्यम् , उत्तमवृद्धोक्तानां वर्णानां क्रमेणान्त्यवर्णश्रवणानन्तरं बालस्यैकस्मृत्यारूढानां मध्यमवृद्धस्य प्रवृत्त्यादिलिङ्गानुमितैकार्थधीहेतुत्वनिश्चये सत्येकपदवाक्यत्वनिश्चयात् ।

वर्णसाम्येऽपि पदभेददृष्टेर्वर्णातिरिक्तं पदं स्फोटाख्यमङ्गीकार्यमिति शङ्कते

अत्राहेति ।

क्रमभेदाद्वर्णेष्वेव पदभेददृष्टिरिति परिहरति

अत्रेति ।

ननु नित्यविभूनां वर्णानां कथं क्रमः कथं वा पदत्वज्ञानेनार्थधीहेतुत्वम् , तत्राह

वृद्धेति ।

व्युत्पत्तिदशायामुच्चारणक्रमेणोपलब्धिक्रममुपलभ्यमानवर्णेष्वारोप्यैते वर्णा एतत्क्रमैतत्सङ्ख्यावन्त एतदर्थशक्ता इति गृहीताः सन्तः श्रोतुः प्रवृत्तिकाले तथैव स्मृत्यारूढाः स्वस्वार्थं बोधयन्तीत्यर्थः ।

स्थायिवर्णवादमुपसंहरति

वर्णेति ।