ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥
अथापि नाम प्रत्युच्चारणमन्येऽन्ये वर्णाः स्युः, तथापि प्रत्यभिज्ञालम्बनभावेन वर्णसामान्यानामवश्याभ्युपगन्तव्यत्वात् , या वर्णेष्वर्थप्रतिपादनप्रक्रिया रचिता सा सामान्येषु सञ्चारयितव्याततश्च नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यविरुद्धम् ॥ २८ ॥

दृष्टं वर्णानामर्थबोधकत्वम् , अदृष्टः स्फोटः । सम्प्रति वर्णानामस्थिरत्वमङ्गीकृत्य प्रौढिवादेन स्फोटं विघटयति

अथापीति ।

स्थिराणि गत्यादिसामान्यानि क्रमविशेषवन्ति गृहीतसङ्गतिकान्यर्थबोधकानीति कॢप्तेषु सामान्येषु प्रक्रिया सञ्चारयितव्या न त्वकॢप्तः स्फोटः कल्पनीय इत्यर्थः ।

वर्णानां स्थायित्ववाचकत्वयोः सिद्धौ फलितमाह

ततश्चेति ॥ २८ ॥