ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अत एव च नित्यत्वम् ॥ २९ ॥
स्वतन्त्रस्य कर्तुरस्मरणादिभिः स्थिते वेदस्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन तस्य विरोधमाशङ्क्यअतः प्रभवात्इति परिहृत्य इदानीं तदेव वेदनित्यत्वं स्थितं द्रढयतिअत एव नित्यत्वमितिअत एव नियताकृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वात् वेदशब्दनित्यत्वमपि प्रत्येतव्यम्तथा मन्त्रवर्णःयज्ञेन वाचः पदवीयमायन् तामन्वविन्दन्नृषिषु प्रविष्टाम्’ (ऋ. सं. १० । ७ । ३) इति स्थितामेव वाचमनुविन्नां दर्शयतिवेदव्यासश्चैवमेव स्मरति — ‘युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयःलेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवाइति ॥ २९ ॥

पूर्वतन्त्रवृत्तानुवादपूर्वकं सूत्रं व्याचष्टे

कर्तुरित्यादिना ।

पूर्वतन्त्रसिद्धमेव वेदस्य नित्यत्वं देवादिव्यक्तिसृष्टौ तद्वाचकशब्दस्यापि सृष्टेरसिद्धमित्याशङ्क्य नित्याकृतिवाचकाच्छब्दाद्व्यक्तिजन्मोक्त्या साङ्केतिकत्वं निरस्य वेदोऽवान्तरप्रलयावस्थायी जागद्धेतुत्वादीश्वरवदित्यनुमानेन द्रढयतीत्यर्थः । यज्ञेन पूर्वसुकृतेन वाचो वेदस्य लाभयोग्यतां प्राप्ताः सन्तो याज्ञिकास्तामृषिषु स्थितां लब्धवन्त इति मन्त्रार्थः । अनुविन्नामुपलब्धाम् । पूर्वमवान्तरकल्पादौ ॥ २९ ॥