ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ ३१ ॥
इह देवादीनामपि ब्रह्मविद्यायामस्त्यधिकार इति यत्प्रतिज्ञातं तत्पर्यावर्त्यतेदेवादीनामनधिकारं जैमिनिराचार्यो मन्यतेकस्मात् ? मध्वादिष्वसम्भवात्ब्रह्मविद्यायामधिकाराभ्युपगमे हि विद्यात्वाविशेषात् मध्वादिविद्यास्वप्यधिकारोऽभ्युपगम्येत; चैवं सम्भवतिकथम् ? असौ वा आदित्यो देवमधु’ (छा. उ. ३ । १ । १) इत्यत्र मनुष्या आदित्यं मध्वध्यासेनोपासीरन्देवादिषु ह्युपासकेष्वभ्युपगम्यमानेष्वादित्यः कमन्यमादित्यमुपासीत ? पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्यमृतान्यनुक्रम्य, वसवो रुद्रा आदित्या मरुतः साध्याश्च पञ्च देवगणाः क्रमेण तत्तदमृतमुपजीवन्तीत्युपदिश्य, एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति’ (छा. उ. ३ । ६ । ३) इत्यादिना वस्वाद्युपजीव्यान्यमृतानि विजानतां वस्वादिमहिमप्राप्तिं दर्शयतिवस्वादयस्तु कान् अन्यान् वस्वादीनमृतोपजीविनो विजानीयुः ? कं वान्यं वस्वादिमहिमानं प्रेप्सेयुः ? तथा — ‘अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादःवायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इत्यादिषु देवतात्मोपासनेषु तेषामेव देवतात्मनामधिकारः सम्भवतितथा इमावेव गोतमभरद्वाजावयमेव गोतमोऽयं भरद्वाजः’ (बृ. उ. २ । २ । ४) इत्यादिष्वपि ऋषिसम्बन्धेषूपासनेषु तेषामेव ऋषीणामधिकारः सम्भवति ॥ ३१ ॥

आक्षिपति

मध्वादिष्विति ।

ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात् , मध्वादिविद्यावदित्यर्थः ।

दृष्टान्तं विवृणोति

कथमित्यादिना ।

द्युलोकाख्यवंशदण्डे अन्तरिक्षरूपे मध्वपूपे स्थित आदित्यो देवानां मोदनान्मध्विव मध्वित्यारोप्य ध्यानं कार्यम् । तत्रादित्यस्याधिकारो न युक्तः, ध्यातृध्येयभेदाभावादित्याह

देवादिष्विति ।

अस्तु वस्वादीनां तत्राधिकार इत्याशङ्क्य तेषामपि तत्र ध्येयत्वात्प्राप्यत्वाच्च न ध्यातृत्वमित्याह

पुनश्चेति ।

चतुर्वेदोक्तकर्माणि प्रणवश्चेति पञ्च कुसुमानि, तेभ्यः सोमाज्यादिद्रव्याणि हुतानि लोहितशुक्लकृष्णपरः कृष्णगोप्याख्यानि पञ्चामृतानि तत्तन्मन्त्रभागैः प्रागाद्यूर्ध्वान्तरपञ्चदिगवस्थिताभिरादित्यरश्मिनाडीभिर्मध्वपूपस्थितच्छिद्ररूपाभिरादित्यमण्डलमानीतानि यशस्तेज इन्द्रियवीर्यान्नात्मना परिणतानि पञ्चदिक्षु स्थितैर्वस्वादिभिरूपजीव्यानीति ध्यायतो वस्वादिप्राप्तिरुक्तेत्यर्थः ।

सूत्रस्थादिपदार्थमाह

तथाग्निरिति ।

आकाशब्रह्मणश्चत्वारः पादाः, द्वौ कर्णौ, द्वे नेत्रे, द्वे नासिके, एका वागिति सप्तस्विन्द्रियेषु शिरश्चमसतीरस्थेषु सप्तर्षिध्यानं कार्यमित्याह

तथेमावेवेति ।

अथ दक्षिणः कर्णः गौतमः, वामो भारद्वाजः, एवं दक्षिणनेत्रनासिके विश्वामित्रवसिष्ठौ, वामे जमदग्निकश्यपौ, वागत्रिरित्यर्थः । अत्र ऋषीणां ध्येयत्वान्नाधिकारः ॥ ३१ ॥