ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
ज्योतिषि भावाच्च ॥ ३२ ॥
यदिदं ज्योतिर्मण्डलं द्युस्थानमहोरात्राभ्यां बम्भ्रमज्जगदवभासयति, तस्मिन्नादित्यादयो देवतावचनाः शब्दाः प्रयुज्यन्ते; लोकप्रसिद्धेर्वाक्यशेषप्रसिद्धेश्च ज्योतिर्मण्डलस्य हृदयादिना विग्रहेण चेतनतया अर्थित्वादिना वा योगोऽवगन्तुं शक्यते, मृदादिवदचेतनत्वावगमात्एतेनाग्न्यादयो व्याख्याताः

किञ्च विग्रहाभावाद्देवादीनां न क्वाप्यधिकार इत्याह

ज्योतिषि भावाच्चेति ।

आदित्यः सूर्यश्चन्द्रः शुक्रोऽङ्गारक इत्यादिशब्दानां ज्योतिःपिण्डेषु प्रयोगस्य भावात्सत्त्वान्न विग्रहवान्देवः कश्चिदस्तीत्यर्थः ।

'आदित्यः पुरस्तादुदेता पश्चादस्तमेता' इति मधुविद्यावाक्यशेषे ज्योतिष्येवादित्यशब्दः प्रसिद्धः । तर्हि ज्योतिःपिण्डानामेवाधिकारोऽस्तु, तत्राह

न चेति ।

अग्न्यादीनामधिकारमाशङ्क्याह

एतेनेति ।

अग्निर्वायुर्भूमिरित्यादिशब्दानामचेतनवाचित्वेनेत्यर्थः ।