ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
ज्योतिषि भावाच्च ॥ ३२ ॥
स्यादेतत्मन्त्रार्थवादेतिहासपुराणलोकेभ्यो देवादीनां विग्रहवत्त्वाद्यवगमादयमदोष इति चेत् , नेत्युच्यते तावल्लोको नाम किञ्चित्स्वतन्त्रं प्रमाणमस्तिप्रत्यक्षादिभ्य एव ह्यविचारितविशेषेभ्यः प्रमाणेभ्यः प्रसिद्धन्नर्थो लोकात्प्रसिद्ध इत्युच्यते चात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति; इतिहासपुराणमपि पौरुषेयत्वात्प्रमाणान्तरमूलमाकाङ्क्षतिअर्थवादा अपि विधिनैकवाक्यत्वात् स्तुत्यर्थाः सन्तो पार्थगर्थ्येन देवादीनां विग्रहादिसद्भावे कारणभावं प्रतिपद्यन्तेमन्त्रा अपि श्रुत्यादिविनियुक्ताः प्रयोगसमवायिनोऽभिधानार्था कस्यचिदर्थस्य प्रमाणमित्याचक्षतेतस्मादभावो देवादीनामधिकारस्य ॥ ३२ ॥

सिद्धान्ती शङ्कते

स्यादेतदित्यादिना ।

'वज्रहस्तः पुरन्दरः' इत्यादयो मन्त्राः । 'सोऽरोदीत्' इत्यादयोऽर्थवादाः । 'इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः' । 'ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः' । इत्यादीतिहासपुराणानि । लोकेऽपि यमं दण्डहस्तं लिखन्ति, इन्द्रं वज्रहस्तमिति विग्रहादिपञ्चकसद्भावादनधिकारदोषो नास्तीत्यर्थः । 'विग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता । फलप्रदानमित्येतत्पञ्चकं विग्रहादिकम् ' ॥

मानाभावादेतन्नास्तीति दूषयति

नेत्यादिना ।

न चात्रेति ।

विग्रहादावित्यर्थः ।

आर्थवादा मन्त्रा वा मूलमित्याशङ्क्याह

अर्थवादा इत्यादिना ।

व्रीह्यादिवद्प्रयोगविधिगृहीता मन्त्राः प्रयोगसम्बन्द्धाभिधानार्था नाज्ञातविग्रहादिपरा इति मीमांसका आचक्षत इत्यर्थः । तस्मात् विग्रहाभावादित्यर्थः ॥ ३२ ॥