ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
तुशब्दः पूर्वपक्षं व्यावर्तयतिबादरायणस्त्वाचार्यो भावमधिकारस्य देवादीनामपि मन्यतेयद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रास्वसम्भवोऽधिकारस्य, तथाप्यस्ति हि शुद्धायां ब्रह्मविद्यायां सम्भवःअर्थित्वसामर्थ्याप्रतिषेधाद्यपेक्षत्वादधिकारस्य क्वचिदसम्भव इत्येतावता यत्र सम्भवस्तत्राप्यधिकारोऽपोद्येतमनुष्याणामपि सर्वेषां ब्राह्मणादीनां सर्वेषु राजसूयादिष्वधिकारः सम्भवतितत्र यो न्यायः सोऽत्रापि भविष्यतिब्रह्मविद्यां प्रकृत्य भवति दर्शनं श्रौतं देवाद्यधिकारस्य सूचकम्तद्यो यो देवानां प्रत्यबुध्यत एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’ (बृ. उ. १ । ४ । १०) इति, ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामानिति, इन्द्रो वै देवानामभिप्रवव्राज विरोचनोऽसुराणाम्’ (छा. उ. ८ । ७ । २) इत्यादि स्मार्तमपि गन्धर्वयाज्ञवल्क्यसंवादादि

सूत्राभ्यां प्राप्तं पूर्वपक्षं निरस्यति

तुशब्द इत्यादिना ।

ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात् , मध्वादिविद्यावदिति उक्तहेतुरप्रयोजक इत्याह

यद्यपीति ।

दर्शादिकम् , न ब्राह्मणमधिकरोति, कर्मत्वात् , राजसूयादिवदिति आभाससाम्यं विद्यात्वहेतोराह

नचेति ।

यत्र यस्याधिकारः सम्भवति स तत्राधिकारीति न्यायस्तुल्य इत्यर्थः । यतः सर्वेषां सर्वत्राधिकारो न सम्भवति ततो न चापोद्येतेत्यन्वयः । तद्ब्रह्म यो यो देवादीनां मध्ये प्रत्यक्त्वेनाबुध्यत स तद्ब्रह्माभवदित्यर्थः । ते ह देवा ऊचुरन्योन्यम् , तत इन्द्रविरोचनौ सुरासुरराजौ प्रजापतिं ब्रह्मविद्याप्रदं जग्मतुरिति च लिङ्गमस्तीत्यर्थः ।

किमत्र ब्रह्मामृतमिति गन्धर्वप्रश्ने याज्ञवल्क्य उवाच तमिति मोक्षधर्मेषु श्रुतं देवादीनामधिकारलिङ्गमित्याह

स्मार्तमिति ।