भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
यदप्युक्तम् ‘ज्योतिषि भावाच्च’ इति, अत्र ब्रूमः — ज्योतिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दाश्चेतनावन्तमैश्वर्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति, मन्त्रार्थवादादिषु तथा व्यवहारात् । अस्ति ह्यैश्वर्ययोगाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टं च तं तं विग्रहं ग्रहीतुं सामर्थ्यम् । तथा हि श्रूयते सुब्रह्मण्यार्थवादे — ‘मेधातिथेर्मेषेति — मेधातिथिं ह काण्वायनमिन्द्रो मेषो भूत्वा जहार’ (षड्विंश. ब्रा. १ । १) इति । स्मर्यते च — ‘आदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम ह’ इति । मृदादिष्वपि चेतना अधिष्ठातारोऽभ्युपगम्यन्ते; ‘मृदब्रवीत्’ ‘आपोऽब्रुवन्’ इत्यादिदर्शनात् । ज्योतिरादेस्तु भूतधातोरादित्यादिष्वचेतनत्वमभ्युपगम्यते । चेतनास्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिषु व्यवहारादित्युक्तम् ॥