ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
यदप्युक्तम्मन्त्रार्थवादयोरन्यार्थत्वान्न देवताविग्रहादिप्रकाशनसामर्थ्यमिति, अत्र ब्रूमःप्रत्ययाप्रत्ययौ हि सद्भावासद्भावयोः कारणम्; नान्यार्थत्वमनन्यार्थत्वं वातथा ह्यन्यार्थमपि प्रस्थितः पथि पतितं तृणपर्णाद्यस्तीत्येव प्रतिपद्यतेअत्राहविषम उपन्यासःतत्र हि तृणपर्णादिविषयं प्रत्यक्षं प्रवृत्तमस्ति, येन तदस्तित्वं प्रतिपद्यतेअत्र पुनर्विध्युद्देशैकवाक्यभावेन स्तुत्यर्थेऽर्थवादे पार्थगर्थ्येन वृत्तान्तविषया प्रवृत्तिः शक्याध्यवसातुम् हि महावाक्येऽर्थप्रत्यायकेऽवान्तरवाक्यस्य पृथक्प्रत्यायकत्वमस्तियथा सुरां पिबेत्इति नञ्वति वाक्ये पदत्रयसम्बन्धात्सुरापानप्रतिषेध एवैकोऽर्थोऽवगम्यते पुनः सुरां पिबेदिति पदद्वयसम्बन्धात्सुरापानविधिरपीतिअत्रोच्यतेविषम उपन्यासःयुक्तं यत्सुरापानप्रतिषेधे पदान्वयस्यैकत्वादवान्तरवाक्यार्थस्याग्रहणम्विध्युद्देशार्थवादयोस्त्वर्थवादस्थानि पदानि पृथगन्वयं वृत्तान्तविषयं प्रतिपद्य, अनन्तरं कैमर्थ्यवशेन कामं विधेः स्तावकत्वं प्रतिपद्यन्तेयथा हिवायव्यं श्वेतमालभेत भूतिकामःइत्यत्र विध्युद्देशवर्तिनां वायव्यादिपदानां विधिना सम्बन्धः, नैवम्वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति एवैनं भूतिं गमयतिइत्येषामर्थवादगतानां पदानाम् हि भवति, ‘वायुर्वा आलभेतइतिक्षेपिष्ठा देवता वा आलभेतइत्यादिवायुस्वभावसङ्कीर्तनेन तु अवान्तरमन्वयं प्रतिपद्य, एवं विशिष्टदैवत्यमिदं कर्मेति विधिं स्तुवन्तितद्यत्र सोऽवान्तरवाक्यार्थः प्रमाणान्तरगोचरो भवति, तत्र तदनुवादेनार्थवादः प्रवर्ततेयत्र प्रमाणान्तरविरुद्धः, तत्र गुणवादेनयत्र तु तदुभयं नास्ति, तत्र किं प्रमाणान्तराभावाद्गुणवादः स्यात् , आहोस्त्वित्प्रमाणान्तराविरोधाद्विद्यमानवाद इतिप्रतीतिशरणैर्विद्यमानवाद आश्रयणीयः, गुणवादःएतेन मन्त्रो व्याख्यातःअपि विधिभिरेवेन्द्रादिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां स्वरूपम् हि स्वरूपरहिता इन्द्रादयश्चेतस्यारोपयितुं शक्यन्ते चेतस्यनारूढायै तस्यै तस्यै देवतायै हविः प्रदातुं शक्यतेश्रावयति यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्’ (ऐ. ब्रा. ३ । ८ । १) इति; शब्दमात्रमर्थस्वरूपं सम्भवति, शब्दार्थयोर्भेदात्तत्र यादृशं मन्त्रार्थवादयोरिन्द्रादीनां स्वरूपमवगतं तत्तादृशं शब्दप्रमाणकेन प्रत्याख्यातुं युक्तम्इतिहासपुराणमपि व्याख्यातेन मार्गेण सम्भवन्मन्त्रार्थवादमूलकत्वात् प्रभवति देवताविग्रहादि साधयितुम्प्रत्यक्षादिमूलमपि सम्भवतिभवति ह्यस्माकमप्रत्यक्षमपि चिरंतनानां प्रत्यक्षम्तथा व्यासादयो देवादिभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यतेयस्तु ब्रूयात्इदानींतनानामिव पूर्वेषामपि नास्ति देवादिभिर्व्यवहर्तुं सामर्थ्यमिति, जगद्वैचित्र्यं प्रतिषेधेत्इदानीमिव नान्यदापि सार्वभौमः क्षत्रियोऽस्तीति ब्रूयात्ततश्च राजसूयादिचोदना उपरुन्ध्यात्इदानीमिव कालान्तरेऽप्यव्यवस्थितप्रायान्वर्णाश्रमधर्मान्प्रतिजानीत, ततश्च व्यवस्थाविधायि शास्त्रमनर्थकं कुर्यात्तस्माद्धर्मोत्कर्षवशाच्चिरंतना देवादिभिः प्रत्यक्षं व्यवजह्रुरिति श्लिष्यतेअपि स्मरन्तिस्वाध्यायादिष्टदेवतासम्प्रयोगः’ (यो. सू. २ । ४४) इत्यादियोगोऽप्यणिमाद्यैश्वर्यप्राप्तिफलकः स्मर्यमाणो शक्यते साहसमात्रेण प्रत्याख्यातुम्श्रुतिश्च योगमाहात्म्यं प्रख्यापयतिपृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते तस्य रोगो जरा मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्’ (श्वे. उ. २ । १२) इतिऋषीणामपि मन्त्रब्राह्मणदर्शिनां सामर्थ्यं नास्मदीयेन सामर्थ्येनोपमातुं युक्तम्तस्मात्समूलमितिहासपुराणम्लोकप्रसिद्धिरपि सति सम्भवे निरालम्बनाध्यवसातुं युक्तातस्मादुपपन्नो मन्त्रादिभ्यो देवादीनां विग्रहवत्त्वाद्यवगमःततश्चार्थित्वादिसम्भवादुपपन्नो देवादीनामपि ब्रह्मविद्यायामधिकारःक्रममुक्तिदर्शनान्यप्येवमेवोपपद्यन्ते ॥ ३३ ॥

मन्त्रादिकं पदशक्त्या भासमानविग्रहादौ स्वार्थे न प्रमाणम् , अन्यपरत्वात् , विषं भुङ्क्ष्वेति वाक्यवदित्याह

यदपीति ।

अन्यपरादपि वाक्याद्बाधाभावे स्वार्थो ग्राह्य इत्याह

अत्र ब्रूम इति ।

तात्पर्यशून्येऽप्यर्थे प्रत्ययमात्रेणास्तित्वमुदाहरति

तथाहीति ।

तृणादौ प्रत्ययोऽस्ति विग्रहादौ स नास्तीति वैषम्यं शङ्कते

अत्राहेति ।

विध्युद्देशो विधिवाक्यम् , तदेकवाक्यतया प्रशस्तो विधिरित्येवार्थवादेषु प्रत्ययः । वृत्तान्तो भूतार्थः । विग्रहादिः तद्विषयः प्रत्ययो नास्तीत्यर्थः ।

नन्ववान्तरवाक्येन विग्रहादिप्रत्ययोऽस्त्वित्यत आह

नहीति ।

सुरापानप्रत्ययोऽपि स्यादिति भावः ।

पदैकवाक्यत्ववाक्यैकवाक्यत्ववैषम्यान्मैवमित्याह

अत्रोच्यत इति ।

नञ्पदमेकं यदा सुरां पिबेदिति पदाभ्यामन्वेति तदा पदैकवाक्यमेकमेवार्थानुभवं करोति नतु पदद्वयं पृथक्सुरापानं बोधयति, तस्य विधौ निषेधानुपपत्तेर्वाक्यार्थानुभवं प्रत्यद्वारत्वात् । अर्थवादस्तु भूतार्थसंसर्गं स्तुतिद्वारं बोधयन्विधिना वाक्यैकवाक्यतां भजत इत्यस्ति विग्रहाद्यनुभव इत्यर्थः ।

नन्वर्थवादस्थपदानामवान्तरसंसर्गबोधकत्वं विना साक्षादेव विध्यन्वयोऽस्तु तत्राह

यथा हीति ।

साक्षादन्वयायोगं दर्शयति

न हीति ।

अर्थवादात्सर्वत्र स्वार्थग्रहणमाशङ्क्यार्थवादान्विभजते

तद्यत्रेति ।

तत्तत्रार्थवादेषु यत्र 'अग्निर्हिमस्य भेषजम्' इत्यादावित्यर्थः । 'आदित्यो यूपः' इत्यभेदो बाधित इति तेजस्वित्वादिगुणवादः । यत्र 'वज्रहस्तः पुरन्दरः' इत्यादौ मानान्तरसंवादविसंवादौ न स्तस्तत्र भूतार्थवाद इत्यर्थः । इति विमृश्येत्यध्याहारः ।

विग्रहार्थवादः स्वार्थेऽपि तात्पर्यवान्, अन्यपरत्वे सत्यज्ञाताबाधितार्थकशब्दत्वात् , प्रयाजादिवाक्यवदिति न्यायं मन्त्रेष्वतिदिशति

एतेनेति ।

वेदान्तानुवादगुणवादानां निरासाय हेतौ पदानि । न चोभयपरत्वे वाक्यभेदः, अवान्तरार्थस्य महावाक्यार्थत्वादिति भावः ।

विध्यनुपपत्त्यापि स्वर्गवद्देवताविग्रहोऽङ्गीकार्य इत्याह

अपिचेति ।

ननु क्लेशात्मके कर्मणि विधिः फलं विनानुपपन्न इति भवतु 'यन्न दुःखेन सम्भिन्नम्' इत्यर्थवादसिद्धः स्वर्गो विधिप्रमाणकः । विग्रहं विना विधेः कानुपपत्तिः, तामाह

न हीति ।

उद्दिश्य त्यागानुपपत्त्या चेतस्यारोहोऽङ्गीकार्य इत्यत्र श्रुतिमप्याह

यस्या इति ।

अतश्चेतस्यारोहार्थं विग्रह एष्टव्यः । किञ्च कर्मप्रकरणपाठाद्विग्रहप्रमितिः प्रयाजवत्कर्माङ्गत्वेनाङ्गीकार्या, तां विना कर्मापूर्वासिद्धेः ।

किञ्च सुप्रसन्नविग्रहवद्देवतां त्यक्त्वा शब्दमात्रं देवतेति भक्तिरयुक्तेत्याह

नच शब्देति ।

न चाकृतिमात्रं शब्दशक्यमस्तु किं विग्रहेणेति वाच्यम् , निर्व्यक्त्याकृत्ययोगात् । अतः शब्दस्यार्थाकाङ्क्षायां मन्त्रादिप्रमितविग्रहोऽङ्गीकार्य इत्याह

तत्रेति ।

एवं मन्त्रार्थवादमूलकमितिहासादिकमपि विग्रहे मानमित्याह

इतिहासेति ।

प्रमाणत्वेन सम्भवदित्यर्थः ।

व्यासादीनां योगिनां देवतादिप्रत्यक्षमपीतिहासादेर्मूलमित्याह

प्रत्यक्षेति ।

व्यासादयो देवादिप्रत्यक्षशून्याः, प्राणित्वात् , अस्मद्वदित्यनुमानमतिप्रसङ्गेन दूषयति

यस्त्वित्यादिना ।

सर्वं घटाभिन्नम् , वस्तुत्वात् , घटवदिति जगद्वैचित्र्यं नास्तीत्यपि स ब्रूयात् । तथा क्षत्रियाभावं वर्णाश्रमाभावं वर्णाश्रमाद्यव्यवस्थां च ब्रूयात् , निरङ्कुशबुद्धित्वात् । तथाच राजसूयादिशास्त्रस्य कृतादियुगधर्मव्यवस्थाशास्त्रस्य बाध इत्यर्थः ।

योगसूत्रार्थादपि देवादिप्रत्यक्षसिद्धिरित्याह

अपिचेति ।

मन्त्रजपाद्देवतासांनिध्यं तत्सम्भाषणं चेति सूत्रार्थः ।

योगमाहात्म्यस्य श्रुतिस्मृतिसिद्धत्वाद्योगिनामस्ति देवादिप्रत्यक्षमित्याह

योग इति ।

पादतलादाजानोर्जानोरानाभेर्नाभेराग्रीवं ग्रीवायाश्चाकेशप्ररोहं ततश्चब्रह्मरन्ध्रं पृथिव्यादिपञ्चके समुत्थिते धारणया जिते योगगुणे चाणिमादिके प्रवृत्ते योगाभिव्यक्तं तेजोमयं शरीरं प्राप्तस्य योगिनो न रोगादिस्पर्श इत्यर्थः ।

चित्रकारादिप्रसिद्धिरपि विग्रहे मानमित्याह

लोकेति ।

अधिकरणार्थमुपसंहरति

तस्मादिति ।

चिन्तायाः फलमाह

क्रमेति ।

एवमेव देवादीनां ब्रह्मविद्याधिकारे सत्येव देवत्वप्राप्तिद्वारा क्रममुक्तिफलान्युपासनानि युज्यन्ते । देवानामनधिकारे ज्ञानाभावात्क्रममुक्त्यर्थिनामुपासनेषु प्रवृत्तिर्न स्यात् , अतोऽधिकारनिर्णयात्प्रवृत्तिसिद्धिरिति भावः ॥ ३३ ॥