ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥
यथा मनुष्याधिकारनियममपोद्य देवादीनामपि विद्यास्वधिकार उक्तः, तथैव द्विजात्यधिकारनियमापवादेन शूद्रस्याप्यधिकारः स्यादित्येतामाशङ्कां निवर्तयितुमिदमधिकरणमारभ्यतेतत्र शूद्रस्याप्यधिकारः स्यादिति तावत्प्राप्तम्; अर्थित्वसामर्थ्ययोः सम्भवात् , तस्माच्छूद्रो यज्ञेऽनवकॢप्तः’ (तै. सं. ७ । १ । १ । ६) इतिवत्शूद्रो विद्यायामनवकॢप्तइति निषेधाश्रवणात्यच्च कर्मस्वनधिकारकारणं शूद्रस्यानग्नित्वम् , तद्विद्यास्वधिकारस्यापवादकं लिङ्गम् ह्याहवनीयादिरहितेन विद्या वेदितुं शक्यतेभवति श्रौतं लिङ्गं शूद्राधिकारस्योपोद्बलकम्संवर्गविद्यायां हि जानश्रुतिं पौत्रायणं शुश्रूषुं शूद्रशब्देन परामृशतिअह हारे त्वा शूद्र तवैव सह गोभिरस्तु’ (छा. उ. ४ । २ । ३) इतिविदुरप्रभृतयश्च शूद्रयोनिप्रभवा अपि विशिष्टविज्ञानसम्पन्नाः स्मर्यन्तेतस्मादधिक्रियते शूद्रो विद्यास्वित्येवं प्राप्ते ब्रूमः

शुगस्यसूच्यते हि । पूर्वेणास्य दृष्टान्तसङ्गतिमाह

यथेति ।

पूर्वत्र देवादीनामधिकारसिध्यर्यं मन्त्रादीनां भूतार्थे विग्रहादौ समन्वयोक्त्या वेदान्तानामपि भूतार्थे ब्रह्मणि समन्वयो दृढीकृतः । अत्रापि शूद्रशब्दस्य श्रौतस्य क्षत्रिये समन्वयोक्त्या स दृढीक्रियत इत्यधिकरणद्वयस्य प्रासङ्गिकस्यास्मिन्समन्वयाध्यायेऽन्तर्भाव इति मन्तव्यम् । पूर्वपक्षे शूद्रस्यापि द्विजवद्वेदान्तश्रवणे प्रवृत्तिः, सिद्धान्ते तदभाव इति फलम् ।

अत्र वेदान्तविचारो विषयः, स किं शूद्रमधिकरोति न वेति सम्भवासम्भवाभ्यां सन्देहे पूर्वपक्षमाह

तत्र शूद्रस्यापीत्यादिना ।

तस्मादनग्नित्वादनवल्कृप्तोऽसमर्थः ।

विद्यार्थिनि शूद्रशब्दप्रयोगाल्लिङ्गादपि शूद्रस्याधिकार इत्याह

भवतिचेति ।

जानश्रुतिः किल षट्शतानि गवां रथं च रैक्वाय गुरवे निवेद्य मां शिक्षयेत्युवाच । ततो रैक्वो विधुरः कन्यार्थी सन्निदमुवाच । अहेति निपातः खेदार्थः । हारेण निष्केण युक्त इत्वा गन्ता रथो हारेत्वा स च गोभिः सह हे शूद्र, तवैवास्तु किमल्पेनानेन मम गार्हस्थ्यानुपयोगिनेति भावः ।

अर्थित्वादिसम्भवे श्रेयःसाधने प्रवृत्तिरुचिता स्वाभाविकत्वादिति न्यायोपेताल्लिङ्गादित्याह

तस्मादिति ।