ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥
शूद्रस्याधिकारः, वेदाध्ययनाभावात्अधीतवेदो हि विदितवेदार्थो वेदार्थेष्वधिक्रियते शूद्रस्य वेदाध्ययनमस्तिउपनयनपूर्वकत्वाद्वेदाध्ययनस्य, उपनयनस्य वर्णत्रयविषयत्वात्यत्तु अर्थित्वम् , तदसति सामर्थ्येऽधिकारकारणं भवतिसामर्थ्यमपि लौकिकं केवलमधिकारकारणं भवति; शास्त्रीयेऽर्थे शास्त्रीयस्य सामर्थ्यस्यापेक्षितत्वात्शास्त्रीयस्य सामर्थ्यस्याध्ययननिराकरणेन निराकृतत्वात्यच्चेदम्शूद्रो यज्ञेऽनवकॢप्तःइति, तत् न्यायपूर्वकत्वाद्विद्यायामप्यनवकॢप्तत्वं द्योतयति; न्यायस्य साधारणत्वात्त्पुनः संवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं मन्यसे, तल्लिङ्गम्; न्यायाभावात्न्यायोक्ते हि लिङ्गदर्शनं द्योतकं भवति चात्र न्यायोऽस्तिकामं चायं शूद्रशब्दः संवर्गविद्यायामेवैकस्यां शूद्रमधिकुर्यात् , तद्विषयत्वात् सर्वासु विद्यासुअर्थवादस्थत्वात्तु क्वचिदप्ययं शूद्रमधिकर्तुमुत्सहतेशक्यते चायं शूद्रशब्दोऽधिकृतविषयो योजयितुम्कथमित्युच्यतेकम्वर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ’ (छा. उ. ४ । १ । ३) इत्यस्माद्धंसवाक्यादात्मनोऽनादरं श्रुतवतो जानश्रुतेः पौत्रायणस्य शुक् उत्पेदेतामृषी रैक्वः शूद्रशब्देनानेन सूचयांबभूव आत्मनः परोक्षज्ञताख्यापनायेति गम्यतेजातिशूद्रस्यानधिकारात्कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति, उच्यतेतदाद्रवणात्; शुचमभिदुद्राव, शुचा वा अभिदुद्रुवे, शुचा वा रैक्वमभिदुद्रावइति शूद्रः; अवयवार्थसम्भवात् , रूढ्यर्थस्य चासम्भवात्दृश्यते चायमर्थोऽस्यामाख्यायिकायाम् ॥ ३४ ॥

सूत्राद्बहिरेव सिद्धान्तयति

न शूद्रस्याधिकार इत्यादिना ।

आपाततो विदितो वेदार्थो येन तस्येत्यर्थः । अध्ययनविधिना संस्कृतो वेदस्तदुत्थमापातज्ञानं च वेदार्थविचारेषु शास्त्रीयं सामर्थ्यम् , तदभावाच्छूद्रस्यार्थित्वादिसम्भवन्यायासिद्धेर्नास्ति वेदान्तविचाराधिकार इत्यर्थः । यद्वाध्ययनसंस्कृतेन वेदेन विदितो निश्चितो वेदार्थो येन तस्य वेदार्थेषु विधिष्वधिकारो नान्यस्य, अनधीतवेदस्यापि वेदार्थानुष्ठानाधिकारेऽध्ययनविधिवैयर्थ्यापातात् । अतः फलपर्यन्तब्रह्मविद्यासाधनेषु श्रवणादिविधिषु शूद्रस्यानधिकार इत्यर्थः ।

अधीतवेदार्थज्ञानवत्त्वरूपस्याध्ययनविधिलभ्यस्य सामर्थ्यस्याभावादिति न्यायस्य तुल्यत्वात् , यज्ञपदं वेदार्थोपलक्षणार्थमित्याह

न्यायस्य साधारणत्वादिति ।

तस्माच्छूद्र इति तच्छब्दपरामृष्टन्यायस्य यज्ञब्रह्मविद्ययोस्तुल्यत्वादित्यर्थः ।

पूर्वोक्तं लिङ्गं दूषयति

यदिति ।

असामर्थ्यन्यायेनार्थित्वादिसम्भवन्यायस्य निरस्तत्वादित्यर्थः ।

ननु 'निषादस्थपतिं याजयेत्' इत्यत्राध्ययनाभावोऽपि निषादशब्दान्निषादस्येष्टाविव शूद्रशब्दाच्छूद्रस्य विद्यायामधिकारोऽस्त्वित्याशङ्क्य संवर्गविद्यायामधिकारमङ्गीकरोति

काममिति ।

तद्विषयत्वात्तत्र श्रुतत्वादित्यर्थः ।

वस्तुतस्तु विधिवाक्यस्थत्वान्निषादशब्दोऽप्यधिकारिसमर्पकः, शूद्रशब्दस्तु विद्याविधिपरार्थवादस्थो नाधिकारिणं बोधयति, असामर्थ्यन्यायविरोधेनान्यपरशब्दस्य स्वार्थबोधित्वासम्भवादिति मत्वाङ्गीकारं त्यजति

अर्थवादेति ।

तर्हि शूद्रशब्दस्यात्र श्रुतस्य कोऽर्थ इत्याशङ्क्य सूत्रेणार्थमाह

शक्यते चेत्यादिना ।

जानश्रुतिर्नाम राजा निदाघसमये रात्रौ प्रासादतले सुष्वाप, तदा तदीयान्नदानादिगुणगणतोषिता ऋषयोऽस्य हितार्थं हंसा भूत्वा मालारूपेण तस्योपर्याजग्मुः, तेषु पाश्चात्यो हंसोऽग्रेसरं हंसमुवाच, भो भो भद्राक्ष, किं न पश्यसि जानश्रुतेरस्य तेजः स्वर्गं व्याप्य स्थितम् , तत्त्वां धक्ष्यति न गच्छेति । तमग्रेसर उवाच, कमप्येनं वराकं विद्याहीनं सन्तम् , अरे, सयुग्वानं युग्वा गन्त्री शकटी तया सह स्थितं रैक्वमिवैतद्वचनमात्थ । रैक्वस्य हि ब्रह्मिष्ठस्य तेजो दुरतिक्रमं नास्यानात्मज्ञस्येत्यर्थः । अस्मद्वचनखिन्नो राजा शकटलिङ्गेन रैक्वं ज्ञात्वा विद्यावान्भविष्यतीति हंसानामभिप्रायः । कमु अरे इति पदच्छेदः । उशब्दोऽप्यर्थः । तेषां हंसानामनादरवाक्यश्रवणादस्य राज्ञः शुगुत्पन्ना, सा शूद्रशब्देन रैक्वेण सूच्यते हीति सूत्रान्वयः । श्रुतयौगिकार्थलाभे सति अनन्वितरूढ्यर्थस्त्याज्य इति न्यायद्योतनार्थो हिशब्दः । तदाद्रवणात्तया शुचा आद्रवणात् । शूद्रः शोकं प्राप्तवान् । शुचा वा कर्त्र्या राजाभिदुद्रुवे प्राप्तः । शुचा वा करणेन रैक्वं गतवानित्यर्थः ॥ ३४ ॥