शूद्रशब्दस्य यौगिकत्वे लिङ्गमाह
क्षत्रियत्वेति ।
संवर्गविद्याविध्यनन्तरमर्थवाद आरभ्यते । शुनकस्यापत्यं कपिगोत्रं पुरोहितमभिप्रतारिनामकं राजानं च कक्षसेनस्यापत्यं सूदेन परिविष्यमाणौ तौ भोक्तुमुपविष्टौ बटुर्भिक्षितवानित्यर्थः ।
नन्वस्य चैत्ररथित्वं न श्रुतमित्यत आह
चैत्ररथित्वं चेति ।
एतेन द्विरात्रेणेति छान्दोग्यश्रुत्यैव पूर्वं चित्ररथस्य कापेययोग उक्तः । अभिप्रतारिणोऽपि तद्योगाच्चित्ररथवंश्यत्वं निश्चीयते । राजवंश्यानां हि प्रायेण पुरोहितवंश्या याजका भवन्तीत्यर्थः ।
नन्वस्त्वभिप्रतारिणश्चैत्ररथित्वम् , तावता कथं क्षत्रियत्वम् , तत्राह
तस्मादिति ।
चित्ररथादित्यर्थः । क्षत्ता सूतस्तस्य रैक्वान्वेषणाय प्रेषणमन्नगोदानादिकं च जानश्रुतेः क्षत्रियत्वे लिङ्गम् ॥ ३५ ॥