ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६ ॥
इतश्च शूद्रस्याधिकारः, यद्विद्याप्रदेशेषूपनयनादयः संस्काराः परामृश्यन्तेतं होपनिन्ये’ (श. ब्रा. ११ । ५ । ३ । १३) धीहि भगव इति होपससाद’ (छा. उ. ७ । १ । १) ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष वै तत्सर्वं वक्ष्यतीति ते समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः’ (प्र. उ. १ । १) इति तान्हानुपनीयैव’ (छा. उ. ५ । ११ । ७) इत्यपि प्रदर्शितैवोपनयनप्राप्तिर्भवतिशूद्रस्य संस्काराभावोऽभिलप्यते शूद्रश्चतुर्थो वर्ण एकजातिः’ (मनु. स्मृ. १० । ४) इत्येकजातित्वस्मरणात् शूद्रे पातकं किञ्चिन्न संस्कारमर्हति’ (मनु. स्मृ. १० । १२ । ६) इत्यादिभिश्च ॥ ३६ ॥

अत्र शूद्रशब्दो यौगिक एवेति न शूद्रस्याधिकार इति स्थितम् । तत्र लिङ्गान्तरमाह

संस्कारेति ।

उपनयनं वेदग्रहणाङ्गं शूद्रस्य नास्तीति पूर्वमुक्तम् । इह विद्याग्रहणाङ्गस्योपनयनसंस्कारस्य सर्वत्र परामर्शाच्छूद्रस्य तदभावान्न विद्याधिकारः इत्युच्यते । भाष्ये आदिपदेनाध्ययनगुरुशुश्रूषादयो गृह्यन्ते । तं शिष्यमाचार्य उपनीतवानित्यर्थः ।

नारदोऽपि विद्यार्थी मन्त्रमुच्चारयन्सनत्कुमारमुपगत इत्याह

अधीति ।

उपदिशेति यावत् । ब्रह्मपरा वेदपारगाः सगुणब्रह्मनिष्ठाः परं निर्गुणं ब्रह्मान्वेषमाणा एष पिप्पलादस्तज्जिज्ञासितं सर्वं वक्ष्यतीति निश्चित्य ते भरद्वाजादयः षडृषयस्तमुपगता इत्यर्थः ।

ननु वैश्वानरविद्यायामृषीन् राजाऽनुपनीयैव विद्यामुवाचेति श्रुतेरनुपनीतस्याप्यस्ति विद्याधिकार इत्यत आह

तान्हेति ।

ते ह समित्पाणयः पूर्वाह्ने प्रतिचक्रमिर इति पूर्ववाक्ये ब्राह्मणा उपनयनार्थमागता इति उपनयनप्राप्तिं दर्शयित्वा निषिध्यते । हीनवर्णेनोत्तमवर्णाऽनुपनीयैवोपदेष्टव्या इत्याचारज्ञापनार्थमित्यर्थः । एकजातिरनुपनीतः । पातकमभक्ष्यभक्षणकृतम् ॥ ३६ ॥