ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥
इतश्च शूद्रस्याधिकारः; यत्सत्यवचनेन शूद्रत्वाभावे निर्धारिते जाबालं गौतम उपनेतुमनुशासितुं प्रववृतेनैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेष्ये सत्यादगाः’ (छा. उ. ४ । ४ । ५) इति श्रुतिलिङ्गात् ॥ ३७ ॥

सत्यकामः किलमृतपितृको जबालां मातरमपृच्छत् , किङ्गोत्रोऽहमिति । तं मातोवाच भर्तृसेवाव्यग्रतयाहमपि तव पितुर्गोत्रं न जानामि, जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति एतावज्जानामीति । ततः स जाबालो गौतममागत्य तेन किङ्गोत्रोऽसीति पृष्ट उवाच, नाहं गोत्रं वेद्मि न माता वेत्ति परन्तु मे मात्रा कथितम् , उपनयनार्थमाचार्यं गत्वा सत्यकामो जाबालोऽस्मीति ब्रूहीति । अनेन सत्यवचनेन तस्य शूद्रत्वाभावो निर्धारितः । अब्राह्मण एतत्सत्यं विविच्य वक्तुम् , नार्हतीति निर्धार्य, हे सोम्य, सत्यात्त्वं नागाः सत्यं न त्यक्तवानसि, अतस्त्वामुपनेष्ये, तदर्थं समिधमाहरेति गौतमस्य प्रवृत्तेश्च लिङ्गान्न शूद्रस्याधिकार इत्याह

तदभावेति ॥ ३७ ॥