ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
ज्योतिर्दर्शनात् ॥ ४० ॥
एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ (छा. उ. ८ । १२ । ३) इति श्रूयतेतत्र संशय्यतेकिं ज्योतिःशब्दं चक्षुर्विषयतमोपहं तेजः, किं वा परं ब्रह्मेतिकिं तावत्प्राप्तम् ? प्रसिद्धमेव तेजो ज्योतिःशब्दमितिकुतः ? तत्र ज्योतिःशब्दस्य रूढत्वात्ज्योतिश्चरणाभिधानात्’ (ब्र. सू. १ । १ । २४) इत्यत्र हि प्रकरणाज्ज्योतिःशब्दः स्वार्थं परित्यज्य ब्रह्मणि वर्तते चेह तद्वत्किञ्चित्स्वार्थपरित्यागे कारणं दृश्यतेतथा नाडीखण्डेअथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते’ (छा. उ. ८ । ६ । ५) इति मुमुक्षोरादित्यप्राप्तिरभिहितातस्मात्प्रसिद्धमेव तेजो ज्योतिःशब्दमिति, एवं प्राप्ते ब्रूमः

ज्योतिर्दर्शनात् । छान्दोग्ये प्रजापतिविद्यावाक्यमाह

एष इति ।

परञ्ज्योतिः श्रुतिभ्यां संशयमाह

तत्रेति ।

घटादिविषयावरकतमोनाशकं सौरमित्यर्थः ।

पूर्वत्र ब्रह्मप्रकरणस्यानुग्राहकः सर्वशब्दसङ्कोचाद्ययोगोऽस्तीति प्राणश्रुतिर्ब्रह्मणि नीता । न तथात्र 'य आत्मापहतपाप्मा' इति प्रकरणस्यानुग्राहकं पश्याम इति प्रत्युदाहरणेन पूर्वपक्षमाह

प्रसिद्धमेवेत्यादिना ।

पूर्वपक्षे सूर्योपास्तिः, सिद्धान्ते ब्रह्मज्ञानान्मुक्तिरिति फलम् ।

ननु ज्योतिरधिकरणे ज्योतिःशब्दस्य ब्रह्मणि वृत्तेरुक्तत्वात्कथं पूर्वपक्ष इत्यत आह

ज्योतिरिति ।

तत्र गायत्रीवाक्ये प्रकृतब्रह्मपरामर्शकयच्छब्दसामानाधिकरण्याज्ज्योतिःशब्दस्य स्वार्थत्यागः कृतः, तथात्र स्वार्थत्यागे हेत्वदर्शनात्पूर्वपक्ष इत्यर्थः ।

ज्योतिःश्रुतेरनुग्राहकत्वेनार्चिरादिमार्गस्थत्वं लिङ्गमाह

तथाचेति ।

'ता वा एता हृदयस्य नाड्यः' इति कण्डिकया नाडीनां रश्मीनां च मिथः संश्लेषमुक्त्वा अथ संज्ञालोपानन्तरं यत्र काले एतन्मरणं यथा स्यात्तथोत्क्रामति अथ तदा एतैर्नाडीसंश्लिष्टरश्मिभिरूर्ध्वः सन्नुपरि गच्छति, गत्वादित्यं ब्रह्मलोकद्वारभूतं गच्छतीत्यभिहितम् , तथैवात्रापि शरीरात्समुत्थाय मृत्वा परं ज्योतिरादित्याख्यमुपसम्पद्य तद्द्वारा ब्रह्मलोकं गत्वा स्वस्वरूपेणाभिनिष्पद्यत इति वक्तव्यम् । समुत्थायोपसम्पद्येति क्त्वाश्रुतिभ्यां ज्योतिषोऽर्चिरादिमार्गस्थत्वभानादित्यर्थः ।

अतो मार्गस्थसूर्योपास्त्या क्रममुक्तिपरं वाक्यमिति प्राप्ते सिद्धान्तयति

एवमिति ।

व्याख्येयत्वेनोपक्रान्त आत्मैवात्र ज्योतिःशब्देन व्याख्येय इति ज्योतिर्वाक्येनैकवाक्यताप्रयोजकप्रकरणानुगृहीतोत्तमपुरुषश्रुत्या वाक्यभेदकज्योतिःश्रुतिर्बाध्येति भावः ।