ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
कम्पनात् ॥ ३९ ॥
ब्रह्मैवेदमिह प्रतिपत्तव्यम्कुतः ? पूर्वोत्तरालोचनात्पूर्वोत्तरयोर्हि ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहेइहैव कथमकस्मादन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहि ? पूर्वत्र तावत् तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यतेतस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन’ (क. उ. २ । ३ । १) इति ब्रह्म निर्दिष्टम्तदेव इहापि, सन्निधानात् , ‘जगत्सर्वं प्राण एजतिइति लोकाश्रयत्वप्रत्यभिज्ञानात् निर्दिष्टमिति गम्यतेप्राणशब्दोऽप्ययं परमात्मन्येव प्रयुक्तःप्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) इति दर्शनात्एजयितृत्वमपीदं परमात्मन एवोपपद्यते, वायुमात्रस्यतथा चोक्तम् प्राणेन नापानेन मर्त्यो जीवति कश्चनइतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ (क. उ. २ । २ । ५) इतिउत्तरत्रापि भयादस्याग्निस्तपति भयात्तपति सूर्यःभयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः’ (क. उ. २ । ३ । ३) इति ब्रह्मैव निर्देक्ष्यते, वायुः, सवायुकस्य जगतो भयहेतुत्वाभिधानात्तदेव इहापि सन्निधानात्महद्भयं वज्रमुद्यतम्इति भयहेतुत्वप्रत्यभिज्ञानान्निर्दिष्टमिति गम्यतेवज्रशब्दोऽप्ययं भयहेतुत्वसामान्यात्प्रयुक्तःयथा हिवज्रमुद्यतं ममैव शिरसि निपतेत् , यद्यहमस्य शासनं कुर्याम्इत्यनेन भयेन जनो नियमेन राजादिशासने प्रवर्तते, एवमिदमग्निवायुसूर्यादिकं जगत् अस्मादेव ब्रह्मणो बिभ्यत् नियमेन स्वव्यापारे प्रवर्तत इतिभयानकं वज्रोपमितं ब्रह्मतथा ब्रह्मविषयं श्रुत्यन्तरम्भीषास्माद्वातः पवतेभीषोदेति सूर्यःभीषास्मादग्निश्चेन्द्रश्चमृत्युर्धावति पञ्चमः’ (तै. उ. २ । ८ । १) इतिअमृतत्वफलश्रवणादपि ब्रह्मैवेदमिति गम्यतेब्रह्मज्ञानाद्ध्यमृतत्वप्राप्तिः, तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ६ । १५) इति मन्त्रवर्णात्यत्तु वायुविज्ञानात्क्वचिदमृतत्वमभिहितम् , तदापेक्षिकम्तत्रैव प्रकरणान्तरकरणेन परमात्मानमभिधाय अतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति वाय्वादेरार्तत्वाभिधानात्प्रकरणादप्यत्र परमात्मनिश्चयःअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद’ (क. उ. १ । २ । १४) इति परमात्मनः पृष्टत्वात् ॥ ३९ ॥

सूत्राद्वहिरेव सिद्धान्तं प्रतिजानीते

ब्रह्मैवेति ।

पूर्वोत्तरवाक्यैकवाक्यतानुगृहीतं सर्वाश्रयत्वं लिङ्गं वाक्यभेदकप्राणश्रुतेर्बाधकमित्याह

पूर्वत्रेत्यादिना ।

शुक्रं स्वप्रकाशम् । तदु नात्येति ब्रह्मानाश्रितः कोऽपि लोको नास्त्येवेत्युकारार्थः ।

सौत्रं लिङ्गं व्याचष्टे

एजयितृत्वमिति ।

सवायुकस्य सर्वस्य कम्पनश्रवणादपि प्राणः परमात्मैवेत्यर्थः ।

ब्रह्मणि वज्रशब्दः कथमित्याशङ्क्य गौण इत्याह

वज्रशब्द इति ।

बृहदारण्यके 'वायुरेव व्यष्टिः' इत्यत्र 'अपपुनर्मृत्युम्' इत्यपमृत्युजयरूपमापेक्षिकममृतत्वमुच्यते न मुख्यामृतत्वम् , तत्रैव वायूपास्तिप्रकरणं समाप्य 'अथ हैनमुषस्तः पप्रच्छ' इति ज्ञेयात्मानमुक्त्वा वाय्वादेर्नाशित्वोक्तेरित्याह

यत्तु वाय्वित्यादिना ।

तस्मात्काठकवाक्यं ज्ञेये समन्वितविति सिद्धम् ॥ ३९ ॥