ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥
परमेव ब्रह्म इहाकाशशब्दं भवितुमर्हतिकस्मात् ? अर्थान्तरत्वादि व्यपदेशात् । ‘ते यदन्तरा तद्ब्रह्मइति हि नामरूपाभ्यामर्थान्तरभूतमाकाशं व्यपदिशति ब्रह्मणोऽन्यन्नामरूपाभ्यामर्थान्तरं सम्भवति, सर्वस्य विकारजातस्य नामरूपाभ्यामेव व्याकृतत्वात्नामरूपयोरपि निर्वहणं निरङ्कुशं ब्रह्मणोऽन्यत्र सम्भवति, अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति ब्रह्मकर्तृकत्वश्रवणात्ननु जीवस्यापि प्रत्यक्षं नामरूपविषयं निर्वोढृत्वमस्तिबाढमस्तिअभेदस्त्विह विवक्षितःनामरूपनिर्वहणाभिधानादेव स्रष्टृत्वादि ब्रह्मलिङ्गमभिहितं भवतितद्ब्रह्म तदमृतं आत्मा’ (छा. उ. ८ । १४ । १) इति ब्रह्मवादस्य लिङ्गानिआकाशस्तल्लिङ्गात्’ (ब्र. सू. १ । १ । २२) इत्यस्यैवायं प्रपञ्चः ॥ ४१ ॥

यत्र बहुप्रमाणसंवादस्तत्र वाक्यस्य तात्पर्यमिति निर्णयादिति सिद्धान्तयति

परमेवेत्यादिना ।

नामरूपे शब्दर्थौ तदन्तःपातिनस्तद्भिन्नत्वे तत्कर्तृत्वं चायुक्तमित्यर्थः ।

नामादिकर्तृत्वं न ब्रह्मलिङ्गम् , जीवस्थत्वादिति शङ्कते

नन्विति ।

'अनेन जीवेन’ इत्यत्र जीवस्य ब्रम्हाभेदेन तत्कर्तृत्वमुच्यते साक्षादयोगादिति परिहरति

बाढमिति ।

यच्चोक्तं स्पष्टं लिङ्गं नास्तीति, तत्राह

नामेति ।

तर्हि पुनरुक्तिः, तत्राह

आकाशेति ।

तस्यैव साधकोऽयं विचारः । अत्राकाशशब्दस्य ब्रह्मणि वृत्तिं सिद्धवत्कृत्य तत्र संशयादिप्रवृत्तेरुक्तत्वादिति न पौनरुक्त्यमिति भावः ॥ ४१ ॥