ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
व्यपदेशादित्यनुवर्ततेबृहदारण्यके षष्ठे प्रपाठके कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ (बृ. उ. ४ । ३ । ७) इत्युपक्रम्य भूयानात्मविषयः प्रपञ्चः कृतःतत्किं संसारिस्वरूपमात्रान्वाख्यानपरं वाक्यम् , उतासंसारिस्वरूपप्रतिपादनपरमिति संशयःकिं तावत्प्राप्तम् ? संसारिस्वरूपमात्रविषयमेवेतिकुतः ? उपक्रमोपसंहाराभ्याम्उपक्रमेयोऽयं विज्ञानमयः प्राणेषुइति शारीरलिङ्गात्उपसंहारे वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु’ (बृ. उ. ४ । ४ । २२) इति तदपरित्यागात्मध्येऽपि बुद्धान्ताद्यवस्थोपन्यासेन तस्यैव प्रपञ्चनादित्येवं प्राप्ते ब्रूमः

सुषुप्त्युत्क्रान्त्योर्भेदेन । अहन्धीगम्येषु कतम आत्मेति जनकप्रश्ने याज्ञवल्क्य आह

योऽयमिति ।

विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः । सप्तमी व्यतिरेकार्था । प्राणबुद्धिभ्यां भिन्न इत्यर्थः ।

वृत्तेरज्ञानाच्च भेदमाह

अन्तर्ज्योतिरिति ।

पुरुषः पूर्ण इत्यर्थः ।

उभयलिङ्गानां दर्शनात्संशयमाह

तत्किमिति ।

पूर्वत्र नामरूपाभ्यां भेदोक्तेराकाशो ब्रह्मेत्युक्तम् , तदयुक्तम् , 'प्राज्ञेनात्मना सम्परिष्वक्तः' इत्यभिन्नेऽपि जीवात्मनि भेदोक्तिवदौपचारिकभेदोक्तिसम्भवादित्याक्षेपसङ्गतिः । पूर्वपक्षे कर्मकर्तृजीवस्तुतिः, सिद्धान्ते जीवानुवादेन ततः कल्पितभेदभिन्नस्य प्राज्ञस्य परमात्मनः स्वरूपैक्यप्रमितिरिति फलम् । बुद्धान्तो जाग्रदवस्था ।