ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
परमेश्वरोपदेशपरमेवेदं वाक्यम् , शारीरमात्रान्वाख्यानपरम्कस्मात् ? सुषुप्तावुत्क्रान्तौ शारीराद्भेदेन परमेश्वरस्य व्यपदेशात्सुषुप्तौ तावत् अयं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४ । ३ । २१) इति शारीराद्भेदेन परमेश्वरं व्यपदिशतितत्र पुरुषः शारीरः स्यात् , तस्य वेदितृत्वात्बाह्याभ्यन्तरवेदनप्रसङ्गे सति तत्प्रतिषेधसम्भवात्प्राज्ञः परमेश्वरः, सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात्तथोत्क्रान्तावपि अयं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति’ (बृ. उ. ४ । ३ । ३५) इति जीवाद्भेदेन परमेश्वरं व्यपदिशतितत्रापि शारीरो जीवः स्यात् , शरीरस्वामित्वात्प्राज्ञस्तु एव परमेश्वरःतस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षित इति गम्यतेयदुक्तमाद्यन्तमध्येषु शारीरलिङ्गात् तत्परत्वमस्य वाक्यस्येति, अत्र ब्रूमःउपक्रमे तावत्योऽयं विज्ञानमयः प्राणेषुइति संसारिस्वरूपं विवक्षितम्किं तर्हि ? — अनूद्य संसारिस्वरूपं परेण ब्रह्मणास्यैकतां विवक्षतियतःध्यायतीव लेलायतीवइत्येवमाद्युत्तरग्रन्थप्रवृत्तिः संसारिधर्मनिराकरणपरा लक्ष्यतेथोपसंहारेऽपि यथोपक्रममेवोपसंहरति — ‘ वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषुइतियोऽयं विज्ञानमयः प्राणेषु संसारी लक्ष्यते, वा एष महानज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्यर्थःयस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासात्संसारिस्वरूपविवक्षां मन्यते, प्राचीमपि दिशं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेतयतो बुद्धान्ताद्यवस्थोपन्यासेनावस्थावत्त्वं संसारित्वं वा विवक्षितंकिं तर्हि ? — अवस्थारहितत्वमसंसारित्वं कथमेतदवगम्यते ? यत् अत ऊर्ध्वं विमोक्षायैव ब्रूहि’ (बृ. उ. ४ । ३ । १४) इति पदे पदे पृच्छतियच्च अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इति पदे पदे प्रतिवक्तिअनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य भवति’ (बृ. उ. ४ । ३ । २२) इति तस्मादसंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम् ॥ ४२ ॥

आदिमध्यावसानेषु जीवोक्तेर्जीवस्तावकमिदं वाक्यमिति प्राप्ते सिद्धान्तयति

परमेश्वरेत्यादिना ।

वाक्यस्य जीवस्तावकत्वे जीवाद्भेदेन प्राज्ञस्याज्ञातस्योत्तरोक्तिरसङ्गता स्यात् , अतो ज्ञाताज्ञातसंनिपाते ज्ञातानुवादेनाज्ञातं प्रतिपादनीयम् , 'अपूर्वे वाक्यतात्पर्यम्' इति न्यायादिति सिद्धान्ततात्पर्यम् ।

पुरुषः शरीरं प्राज्ञो जीव इति भ्रान्तिं वारयति

तत्र पुरुष इत्यादिना ।

देहस्य वेदनाप्रसक्तेर्निषेधायोगात्पुरुषो जीव एव, प्राज्ञस्तु रूढ्या पर एवेत्यर्थः । अन्वारूढोऽधिष्ठितः । उत्सर्जन् घोराञ्शब्दान्मुञ्चन् । बुद्धौ ध्यायन्त्यामात्माध्यायतीव चलन्त्यां चलतीव ।

वस्तुतः सर्वविक्रियाशून्य इत्युक्तेर्न संसारिणि तात्पर्यमित्याह

यत इति ।

उपक्रमवदुपसंहारवाक्येऽप्यैक्यं विविक्षितमित्याह

तथेति ।

व्याचष्टे

योऽयमिति ।

अवस्थोपन्यासस्य त्वमर्थशुद्धिद्वारैक्यपरत्वान्न जीवलिङ्गत्वमित्याह

यतो न बुद्धान्तेति ।

प्रश्नोत्तराभ्यामसंसारित्वं गम्यत इत्याह

यदत ऊर्ध्वमिति ।

कामादिविवेकानन्तरमित्यर्थः ।

भवतीति चेति ।

यद्यस्माद्वक्ति तस्मादवगम्यत इति योजना । तेनावस्थाधर्मेणानन्वागतोऽस्पृष्टो भवति, असङ्गत्वात् । सुषुप्तावप्यात्मतत्त्वं पुण्यपापाभ्यामस्पृष्टं भवति । हि यस्मादात्मा सुषुप्तौ सर्वशोकातीतः तस्माधृदयस्यैव सर्वे शोका इति श्रुत्यर्थः ॥ ४२ ॥