ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥
आनुमानिकमपि अनुमाननिरूपितमपि प्रधानम् , एकेषां शाखिनां शब्दवदुपलभ्यते; काठके हि पठ्यतेमहतः परमव्यक्तमव्यक्तात्पुरुषः परः’ (क. उ. १ । ३ । ११) इति; तत्र एव यन्नामानो यत्क्रमाश्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धाः, एवेह प्रत्यभिज्ञायन्तेतत्राव्यक्तमिति स्मृतिप्रसिद्धेः, शब्दादिहीनत्वाच्च व्यक्तमव्यक्तमिति व्युत्पत्तिसम्भवात् , स्मृतिप्रसिद्धं प्रधानमभिधीयतेअतस्तस्य शब्दवत्त्वादशब्दत्वमनुपपन्नम्तदेव जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेत् , नैतदेवम् ह्येतत्काठकवाक्यं स्मृतिप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरम् ह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानम् , तादृशं प्रत्यभिज्ञायतेशब्दमात्रं ह्यत्राव्यक्तमिति प्रत्यभिज्ञायते शब्दः व्यक्तमव्यक्तमितियौगिकत्वात् अन्यस्मिन्नपि सूक्ष्मे सुदुर्लक्ष्ये प्रयुज्यते चायं कस्मिंश्चिद्रूढःया तु प्रधानवादिनां रूढिः, सा तेषामेव पारिभाषिकी सती वेदार्थनिरूपणे कारणभावं प्रतिपद्यते क्रममात्रसामान्यात्समानार्थप्रतिपत्तिर्भवति, असति तद्रूपप्रत्यभिज्ञाने ह्यश्वस्थाने गां पश्यन्नश्वोऽयमित्यमूढोऽध्यवस्यतिप्रकरणनिरूपणायां चात्र परपरिकल्पितं प्रधानं प्रतीयते, शरीररूपकविन्यस्तगृहीतेःशरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यतेकुतः ? प्रकरणात् परिशेषाच्चतथा ह्यनन्तरातीतो ग्रन्थ आत्मशरीरादीनां रथिरथादिरूपककॢप्तिं दर्शयतिआत्मानं रथिनं विद्धि शरीरं रथमेव तुबुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव ॥’ (क. उ. १ । ३ । ३)इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इतितैश्चेन्द्रियादिभिरसंयतैः संसारमधिगच्छति, संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमाप्नोति इति दर्शयित्वा, किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायाम् , तेभ्य एव प्रकृतेभ्यः इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं विष्णोः परमं पदं दर्शयतिइन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनःमनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥’ (क. उ. १ । ३ । १०)महतः परमव्यक्तमव्यक्तात्पुरुषः परःपुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ (क. उ. १ । ३ । ११) इति; तत्र वेन्द्रियादयः पूर्वस्यां रथरूपककल्पनायामश्वादिभावेन प्रकृताः, एवेह परिगृह्यन्ते, प्रकृतहानाप्रकृतप्रक्रियापरिहारायतत्र इन्द्रियमनोबुद्धयस्तावत्पूर्वत्र इह समानशब्दा एवअर्थास्तु ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्दिष्टाः, तेषां चेन्द्रियेभ्यः परत्वम् , इन्द्रियाणां ग्रहत्वं विषयाणामतिग्रहत्वम् इति श्रुतिप्रसिद्धेःविषयेभ्यश्च मनसः परत्वम् , मनोमूलत्वाद्विषयेन्द्रियव्यवहारस्यमनसस्तु परा बुद्धिःबुद्धिं ह्यारुह्य भोग्यजातं भोक्तारमुपसर्पतिबुद्धेरात्मा महान्परःयः, सःआत्मानं रथिनं विद्धिइति रथित्वेनोपक्षिप्तःकुतः ? आत्मशब्दात् , भोक्तुश्च भोगोपकरणात्परत्वोपपत्तेःमहत्त्वं चास्य स्वामित्वादुपपन्नम्अथवा — ‘मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरःप्रज्ञा संविच्चितिश्चैव स्मृतिश्च परिपठ्यतेइति स्मृतेः, यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ (श्वे. उ. ६ । १८) इति श्रुतेः , या प्रथमजस्य हिरण्यगर्भस्य बुद्धिः, सा सर्वासां बुद्धीनां परमा प्रतिष्ठा; सेह महानात्मेत्युच्यतेसा पूर्वत्र बुद्धिग्रहणेनैव गृहीता सती हिरुगिहोपदिश्यते, तस्या अप्यस्मदीयाभ्यो बुद्धिभ्यः परत्वोपपत्तेःएतस्मिंस्तु पक्षे परमात्मविषयेणैव परेण पुरुषग्रहणेन रथिन आत्मनो ग्रहणं द्रष्टव्यम्, परमार्थतः परमात्मविज्ञानात्मनोर्भेदाभावात्तदेवं शरीरमेवैकं परिशिष्यते तेषुइतराणीन्द्रियादीनि प्रकृतान्येव परमपददिदर्शयिषया समनुक्रामन्परिशिष्यमाणेनेहान्त्येनाव्यक्तशब्देन परिशिष्यमाणं प्रकृतं शरीरं दर्शयतीति गम्यतेशरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य ह्यविद्यावतो भोक्तुः शरीरादीनां रथादिरूपककल्पनया संसारमोक्षगतिनिरूपणेन प्रत्यगात्मब्रह्मावगतिरिह विवक्षितातथा एष सर्वेषु भूतेषु गूढोऽत्मा प्रकाशतेदृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’ (क. उ. १ । ३ । १२) इति वैष्णवस्य परमपदस्य दुरवगमत्वमुक्त्वा तदवगमार्थं योगं दर्शयतियच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनिज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि’ (क. उ. १ । ३ । १३) इतिएतदुक्तं भवतिवाचं मनसि संयच्छेत् वागादिबाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेतमनोऽपि विषयविकल्पाभिमुखं विकल्पदोषदर्शनेन ज्ञानशब्दोदितायां बुद्धावध्यवसायस्वभावायां धारयेत् तामपि बुद्धिं महत्यात्मनि भोक्तरि अग्र्यायां वा बुद्धौ सूक्ष्मतापादनेन नियच्छेत् महान्तं त्वात्मानं शान्त आत्मनि प्रकरणवति परस्मिन्पुरुषे परस्यां काष्ठायां प्रतिष्ठापयेदितितदेवं पूर्वापरालोचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाशः ॥ १ ॥

तत्किं प्रधानपरं पूर्वोक्तशरीरपरं वेति स्मृतिप्रकरणाभ्यां संशये पूर्वमप्रसिद्धब्रह्मपरत्वं यथा षष्ठाध्यायस्य दर्शितं तद्वदव्यक्तपदमप्रसिद्धप्रधानपरमिति पूर्वपक्षयति

आनुमानिकमिति ।

अपिशब्दाद्ब्रह्माङ्गीकारेणायमशब्दत्वाक्षेप इति सूचयति । तथा च ब्रह्मप्रधानयोर्विकल्पेन कारणत्वात् ब्रह्मण्येव वेदान्तानां समन्वय इति नियमासिद्धिः फलम् , सिद्धान्ते नियमसिद्धिरिति विवेकः । पदविचारत्वादधिकरणानामेतत्पादसङ्गतिर्बोध्या ।

स्मार्तक्रमरूढिभ्यामव्यक्तशब्दः प्रधानपरः शब्दस्पर्शादिशून्यत्वेन योगसम्भवाच्चेत्याह

शब्दादीति ।

प्रधानस्य वैदिकशब्दवाच्यत्वे का क्षतिरित्यत आह

तदेवेति ।

'अजामेकाम्' इत्याद्या श्रुतिः । 'हेतुः प्रकृतिरुच्यते' इत्याद्या स्मृतिः । 'यदल्पं तज्जडप्रकृतिकम्' इति न्यायः । ततो ब्रह्मैव कारणमिति मतक्षतिरिति भावः ।

सूत्रे नञर्थं वदन्सिद्धान्तयति

नैतदिति ।

प्रधानं वैदिकं नेत्यत्र तात्पर्याभावं हेतुमाह

नहीति ।

ननु प्रधानस्यात्र प्रत्यभिज्ञानाद्वैदिकत्वमित्यत आह

न ह्यत्रेति ।

ननु शब्दप्रत्यभिज्ञायामर्थोऽपि प्रत्यभिज्ञायत इत्याशङ्क्य यौगिकाच्छब्दादसति नियामके नार्थविशेषधीरित्याह

स चेति ।

रूढ्या तद्धीरित्याशङ्क्य रूढिः किं लौकिकी स्मार्ता वा । नाद्य इत्याह

न चेति ।

द्वितीयंप्रत्याह

या त्विति ।

पुरुषसङ्केतो नानादिवेदार्थनिर्णयहेतुः, पुंमतेर्विचित्रत्वादित्यर्थः ।

यत्तु स्मार्तक्रमप्रत्यभिज्ञया क्रमिकार्थः स्मार्त एवेति, तत्राह

नच क्रमेति ।

स्थानात्तद्रूपप्रत्यभिज्ञानाशङ्कायामसतीत्यन्वयान्नञो व्यत्यासेनातद्रूपस्य तद्रूपविरुद्धस्य प्रत्यभिज्ञाने सतीत्यर्थः ।

पूर्वज्ञातरूपार्थस्य स्थाने तद्विरुद्धार्थज्ञाने सति तस्य धीर्नास्तीत्यत्र दृष्टान्तमाह

न हीति ।

प्रकृते नास्ति विरुद्धज्ञानमित्याशङ्क्य प्रकरणाच्छरीरज्ञानमस्तीत्याह

प्रकरणेति ।

शरीरमेव रूपकेण रथसादृश्येन विन्यस्तं शरीररूपकविन्यस्तम् , तस्य पूर्ववाक्ये आत्मबुद्ध्योर्मध्यस्थानपठितस्यात्रापि मध्यस्थेनाव्यक्तशब्देन ग्रहणान्न प्रधानस्य वैदिकत्वमिति सूत्रार्थः ।

स्मार्तक्रमः किमिति त्यक्तव्य इत्याशङ्क्य श्रौतक्रमस्य प्रकरणाद्यनुग्रहेण बलवत्त्वादित्याह

कुत इत्यादिना ।

तदुभयं विवृणोति

तथा हीति ।

रूपककॢप्तिः सादृश्यकल्पना । प्रग्रहोऽश्वरशना । यदा बुद्धिसारथिर्विवेकी तदा मनसेन्द्रियहयान्विषमविषयमार्गादाकर्षति । यद्यविवेकी तदा मनोरशनाबद्धांस्तान् प्रवर्तयतीति मनसः प्रग्रहत्वं युक्तम् । तेषु हयेषु । गोचरान्मार्गान् ।

ननु स्वतश्चिदात्मनो भोगसम्भवात्किं रथादिनेत्यत आह

आत्मेति ।

आत्मा देहः, देहादिसङ्ककल्पनया भोक्तृत्वं न स्वतोऽसङ्गत्वादित्यर्थः ।

अधुना रथादिभिर्गन्तव्यं वदन्नाकाङ्क्षापूर्वकमुत्तरवाक्यमाह

तैश्चेत्यादिना ।

शरीरस्य प्रकृतत्वेऽप्यव्यक्तपदेन प्रधानं गृह्यतामित्यत आह

तत्र य एवेति ।

एवं प्रकरणं शोधयित्वा शरीरस्य परिशेषतामानयति

तत्रेन्द्रियेत्यादिना ।

अर्थानां पूर्वमनुक्तिशङ्कां वारयन् परत्वमुपपादयति

अर्था इति ।

गृह्णन्ति पुरुषपशुं बध्नन्तीति ग्रहा इन्द्रियाणि । तेषां ग्रहत्वं विषयाधीनम् । असति विषये तेषामकिञ्चित्करत्वात् । ततो ग्रहेभ्यः श्रेष्ठा अतिग्रहा विषया इति बृहदारण्यके श्रवणात् । परत्वं श्रैष्ठ्याभिप्रायम् , न त्वान्तरत्वेनेति भावः । सविकल्पकं ज्ञानं मनः, निर्विकल्पकं निश्चयात्मिका बुद्धिः, आत्मशब्दात्स एव बुद्धेः परः, प्रत्यभिज्ञायत इति शेषः ।

हिरण्यगर्भाभेदेन ब्रह्मादिपदवेद्या समष्टिबुद्धिर्महानित्याह

अथवेति ।

मननशक्तिः, व्यापिनी, भाविनिश्चयः, ब्रह्मा आत्मा, भोग्यवर्गाश्रयः, तात्कालिकनिश्चयः, कीर्तिशक्तिः, नियमनशक्तिः, त्रैकालनिश्चयः, संविदभिव्यञ्जिका चिदध्यस्तातीतसर्वार्थग्राहिणी समष्टिबुद्धिरित्यर्थः ।

हिरण्यगर्भस्येयं बुद्धिरस्तीत्यत्र श्रुतिमाह

य इति ।

नन्वप्रकृता सा कथमुच्यते, तदुक्तौ च प्रधानेन किमपराद्धमित्यत आह

सा चेति ।

हिरुक्पृथक् । पूर्वं व्यष्टिबुद्ध्यभेदेनोक्तात्र ततो भेदेन परत्वमुच्यत इत्यर्थः ।

तर्हि रथरथिनौ द्वौ परिशिष्टौ स्याताम् , नेत्याह

एतस्मिंस्त्विति ।

अतो रथ एव परिशिष्ट इत्याह

तदेवमिति ।

तेषु पूर्वोक्तेषु षट्पदार्थेष्वित्यर्थः ।

परिशेषस्य फलमाह

इतराणीति ।

वेदो यमो वेति शेषः । दर्शयति चेति सूत्रभागो व्याख्यातः ।

किञ्च ब्रह्मात्मैकत्वपरत्वे ग्रन्थे भेदवादिनां प्रधानस्यावकाशो नास्तीत्याह

शरीरेत्यादिना ।

भोगो वेदना ।

काठकग्रन्थस्यैक्यतात्पर्ये गूढत्वज्ञेयत्वज्ञानहेतुयोगविधयो लिङ्गानि सन्तीत्याह

तथा चैष इत्यादिना ।

अग्र्या समाधिपरिपाकजा । वागित्यत्र द्वितीयालोपश्छान्दसः, मनसीति दैर्घ्यं च ॥ १ ॥