ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम्जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इतितल्लक्षणं प्रधानस्यापि समानमित्याशङ्क्य तदशब्दत्वेन निराकृतम्ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इतिगतिसामान्यं वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, प्रधानकारणवादं प्रतीति प्रपञ्चितं गतेन ग्रन्थेनइदं त्विदानीमवशिष्टमाशङ्क्यतेयदुक्तं प्रधानस्याशब्दत्वम् , तदसिद्धम् , कासुचिच्छाखासु प्रधानसमर्पणाभासानां शब्दानां श्रूयमाणत्वात्अतः प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यतेतद्यावत्तेषां शब्दानामन्यपरत्वं प्रतिपाद्यते, तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत्अतस्तेषामन्यपरत्वं दर्शयितुं परः सन्दर्भः प्रवर्तते

प्रथमाध्याये चतुर्थः पादः ।

अव्यक्तेशमजं पञ्चजनाधारं च कारणम् । वेदितन्यं प्रियं वन्दे प्रकृतिं पुरुषं परम् ॥ १ ॥

अस्मिन्पादेऽधिकरणत्रयस्येक्षत्यधिकरणेन सङ्गतिं वक्तुं वृत्तमनुवदति

ब्रह्मेति ।

तदशब्दत्वेन ।

प्रधानस्य वैदिकशब्दशून्यत्वेनेत्यर्थः । ईक्षत्यधिकरणे गतिसामान्यमशब्दत्वं च प्रतिज्ञातम् , तत्र ब्रह्मणि वेदान्तानां गतिसामान्यं प्रपञ्चितम् , अधुना प्रधानस्याशब्दत्वमसिद्धमित्याशङ्क्य निरूप्यत इत्याक्षेपसङ्गतिः । तेनाशब्दत्वनिरूपणेन ब्रह्मणि वेदान्तानां समन्वयो दृढीकृतो भवतीत्यध्यायसङ्गतिरप्यधिकरणत्रयस्य ज्ञेया । अत्राव्यक्तपदं विषयः ।