ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
तदधीनत्वादर्थवत् ॥ ३ ॥
अत्राहयदि जगदिदमनभिव्यक्तनामरूपं बीजात्मकं प्रागवस्थमव्यक्तशब्दार्हमभ्युपगम्येत, तदात्मना शरीरस्याप्यव्यक्तशब्दार्हत्वं प्रतिज्ञायेत, एव तर्हि प्रधानकारणवाद एवं सत्यापद्येत; अस्यैव जगतः प्रागवस्थायाः प्रधानत्वेनाभ्युपगमादितिअत्रोच्यतेयदि वयं स्वतन्त्रां काञ्चित्प्रागवस्थां जगतः कारणत्वेनाभ्युपगच्छेम, प्रसञ्जयेम तदा प्रधानकारणवादम्परमेश्वराधीना त्वियमस्माभिः प्रागवस्था जगतोऽभ्युपगम्यते, स्वतन्त्रासा चावश्याभ्युपगन्तव्याअर्थवती हि सा हि तया विना परमेश्वरस्य स्रष्टृत्वं सिध्यतिशक्तिरहितस्य तस्य प्रवृत्त्यनुपपत्तेःमुक्तानां पुनरनुत्पत्तिःकुतः ? विद्यया तस्या बीजशक्तेर्दाहात्अविद्यात्मिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुषुप्तिः, यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाःतदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम्एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ (बृ. उ. ३ । ८ । ११) इति श्रुतेः; क्वचिदक्षरशब्दोदितम्अक्षरात्परतः परः’ (मु. उ. २ । १ । २) इति श्रुतेः; क्वचिन्मायेति सूचितम्मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४ । १०) इति मन्त्रवर्णात्अव्यक्ता हि सा माया, तत्त्वान्यत्वनिरूपणस्याशक्यत्वात्तदिदंमहतः परमव्यक्तम्इत्युक्तम्अव्यक्तप्रभवत्वान्महतः, यदा हैरण्यगर्भी बुद्धिर्महान्यदा तु जीवो महान् तदाप्यव्यक्ताधीनत्वाज्जीवभावस्य महतः परमव्यक्तमित्युक्तम्अविद्या ह्यव्यक्तम्; अविद्यावत्त्वेनैव जीवस्य सर्वः संव्यवहारः सन्ततो वर्ततेतच्च अव्यक्तगतं महतः परत्वमभेदोपचारात्तद्विकारे शरीरे परिकल्प्यतेसत्यपि शरीरवदिन्द्रियादीनां तद्विकारत्वाविशेषे शरीरस्यैवाभेदोपचारादव्यक्तशब्देन ग्रहणम् , इन्द्रियादीनां स्वशब्दैरेव गृहीतत्वात् , परिशिष्टत्वाच्च शरीरस्य

अपसिद्धान्तशङ्कोत्तरत्वेन सूत्रं व्याचष्टे

अत्राहेत्यादिना ।

तर्हि तदा । एवं सति सूक्ष्मशब्दितप्रागवस्थाभ्युपगमे सति ।

ईश्वरे कल्पिता तन्नियम्येत्यङ्गीकारान्नापसिद्धान्त इत्याह

अत्रोच्यत इत्यादिना ।

कूटस्थब्रह्मणः स्रष्टृत्वसिद्ध्यर्थमविद्या स्वीकार्येत्युक्तम् । बन्धमुक्तिव्यवस्थार्थमपि सा स्वीकार्येत्याह

मुक्तानामिति ।

यन्नाशान्मुक्तिः सा स्वीकार्या, तां विनैव सृष्टौ मुक्तानां पुनर्बन्धापत्तेरित्यर्थः ।

तस्याः परपरिकल्पितसत्यस्वतन्त्रप्रधानाद्वैलक्षण्यमाह

अविद्येत्यादिना ।

मायामयी प्रसिद्धमायोपमिता । लोके मायाविनो मायावत्परतन्त्रेत्यर्थः ।

जीवभेदोपाधित्वेनापि सा स्वीकार्येत्याह

महासुषुप्तिरिति ।

बुद्ध्याद्युपाधिभेदाज्जीवा इति बहूक्तिः ।

अविद्यायां श्रुतिमप्याह

तदेतदिति ।

आकाशहेतुत्वादाकाशः । ज्ञानं विनान्ताभावादक्षरम् । विचित्रकारित्वान्मायेति भेदः ।

इदानीमविद्याया ब्रह्माभेदान्यत्वाभ्यामनिर्वाच्यत्वेनाव्यक्तशब्दार्हत्वमाह

अव्यक्तेति ।

तस्य महतः परत्वं कथमित्यत आह

तदिदमिति ।

यदा बुद्धिर्महांस्तदा तद्धेतुत्वात्परत्वमित्युक्तमित्यन्वयः ।

प्रतिबिम्बस्योपाधिपरतन्त्रत्वादुपाधेः प्रतिबिम्बात्परत्वमाह

यदा त्विति ।

हेतुं स्फुटयति

अविद्येति ।

अव्यक्तस्य परत्वेऽपि शरीरस्य किं जातम् , तदाह

तच्चेति ।

नन्विन्द्रियादीनामप्यव्यक्ताभेदादव्यक्तत्वं परत्वं च किमिति नोच्यते, तत्राह

सत्यपीति ।