सूत्रद्वयस्य वृत्तिकृद्ध्याख्यानमुत्थापयति
अन्ये त्विति ।
पञ्चीकृतभूतानां सूक्ष्मा अवयवाः स्थूलदेहारम्भकाः । सूक्ष्मशरीरं प्रतिजीवं लिङ्गस्याश्रयत्वेन नियतमस्तीति वक्ष्यते । देहान्तरप्राप्तौ तेन युक्तो गच्छति परलोकमित्यर्थः ।
कथं तस्य महतो जीवात्परत्वमित्याशङ्क्य द्वितीयसूत्रं व्याचष्टे
तदधीनत्वाच्चेति ।
अर्थवदिति ।
सूत्रस्थदृष्टान्तमाह
यथेति ।
तद्ध्याख्यानं दूषयति
तैरिति ।
अव्यक्तपदबलात्प्रकृतमपि स्थूलं त्यज्यत इति शङ्कते
आम्नातस्येति ।
एकार्थबोधकानां शब्दानां मिथ आकाङ्क्षयैकस्यां बुद्धावारूढत्वमेकवाक्यता । तव मते तस्या अभावात्कुतोऽर्थबोध इति समाधत्ते
नेति ।
तां विनाप्यर्थधीः किं न स्यादित्यत आह
नहीति ।
शरीरशब्देन रूढ्या स्थूलं प्रकृतम् , तस्य हानिरप्रकृतस्य भूतसूक्ष्मस्याव्यक्तपदेन ग्रहणमन्याय्यं स्यादित्यर्थः ।
अस्त्वेकवाक्यतेत्यत आह
न चेति ।
ततः किं तत्राह
तत्रेति ।
आकाङ्क्षया वाक्यैकवाक्यत्वे सति प्रकृतं शरीरद्वयमव्यक्तपदेन ग्राह्यम् । आकाङ्क्षायास्तुल्यत्वादिति भावः ।
अनात्मनिश्चयः शुद्धिः, तदर्थं सूक्ष्ममेवाकाङ्क्षितं ग्राह्यम् , तस्य सूक्ष्मत्वेनात्माभेदेन गृहीतस्य दुःशोधत्वात् । स्थूलस्य दृष्टदौर्गन्ध्यादिना लशुनादिवदनात्मत्वधीवैराग्ययोः सुलभत्वादिति शङ्कते
न चेति ।
दृष्टा बीभत्सा घृणा यस्मिन् तस्य भावस्तत्ता तयेत्यर्थः ।
दूषयति
यत इति ।
वैराग्यायशुद्धिरत्र न विवक्षिता, विध्यभावात् , किन्तु वैष्णवं परमं पदं विवक्षितमिति तद्दर्शनार्थं प्रकृतं स्थूलमेवाव्यक्तपदेन ग्राह्यमिति भावः । किञ्च सूक्ष्मस्य लिङ्गान्तःपातिन इन्द्रियादिग्रहणेनैव ग्रहणान्न पृथगव्यक्तशरीरपदाभ्यां ग्रहः ।
अभ्युपेत्याह
सर्वथेति ।
स्थूलस्य सूक्ष्मस्य वा ग्रहेऽपीत्यर्थः ।
तथा नामेति ।
सूक्ष्ममेवाव्यक्तमस्त्वित्यर्थः ॥ ३ ॥