मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः
चतुर्थः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
भाष्यरत्नप्रभाव्याख्या
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥
अत्राह
साङ्ख्यः
—
ज्ञेयत्वावचनात्
,
इत्यसिद्धम्
।
कथम्
?
श्रूयते
ह्युत्तरत्राव्यक्तशब्दोदितस्य
प्रधानस्य
ज्ञेयत्ववचनम्
—
‘
अशब्दमस्पर्शमरूपमव्ययं
तथारसं
नित्यमगन्धवच्च
यत्
।
अनाद्यनन्तं
महतः
परं
ध्रुवं
निचाय्य
तं
मृत्युमुखात्प्रमुच्यते
’ (क. उ. १ । ३ । १५)
इति
।
अत्र
हि
यादृशं
शब्दादिहीनं
प्रधानं
महतः
परं
स्मृतौ
निरूपितम्
,
तादृशमेव
निचाय्यत्वेन
निर्दिष्टम्
।
तस्मात्प्रधानमेवेदम्
।
तदेव
चाव्यक्तशब्दनिर्दिष्टमिति
।
अत्र
ब्रूमः
—
नेह
प्रधानं
निचाय्यत्वेन
निर्दिष्टम्
।
प्राज्ञो
हीह
परमात्मा
निचाय्यत्वेन
निर्दिष्ट
इति
गम्यते
।
कुतः
?
प्रकरणात्
।
प्राज्ञस्य
हि
प्रकरणं
विततं
वर्तते
— ‘
पुरुषान्न
परं
किञ्चित्सा
काष्ठा
सा
परा
गतिः
’
इत्यादिनिर्देशात्
, ‘
एष
सर्वेषु
भूतेषु
गूढोऽऽत्मा
न
प्रकाशते
’
इति
च
दुर्ज्ञानत्ववचनेन
तस्यैव
ज्ञेयत्वाकाङ्क्षणात्
, ‘
यच्छोद्वाङ्मनसी
प्राज्ञः
’
इति
च
तज्ज्ञानायैव
वागादिसंयमस्य
विहितत्वात्
।
मृत्युमुखप्रमोक्षणफलत्वाच्च
।
न
हि
प्रधानमात्रं
निचाय्य
मृत्युमुखात्प्रमुच्यत
इति
साङ्ख्यैरिष्यते
।
चेतनात्मविज्ञानाद्धि
मृत्युमुखात्प्रमुच्यत
इति
तेषामभ्युपगमः
।
सर्वेषु
वेदान्तेषु
प्राज्ञस्यैवात्मनोऽशब्दादिधर्मत्वमभिलप्यते
।
तस्मान्न
प्रधानस्यात्र
ज्ञेयत्वमव्यक्तशब्दनिर्दिष्टत्वं
वा
॥ ५ ॥
वदतीति चेदिति
;
लिङ्गोक्तिमाशङ्क्य निषेधति
वदतीति चेदिति ।
अत्र हि तादृशमेव निर्दिष्टमित्यन्वयः । स्पष्टमन्यत् ॥ ५ ॥