ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
अत्रोच्यतेनैव वयमिह वरप्रदानव्यतिरेकेण प्रश्नं कञ्चित्कल्पयामः, वाक्योपक्रमसामर्थ्यात्वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादरूपा वाक्यप्रवृत्तिः समाप्तेः कठवल्लीनां लक्ष्यतेमृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन्वरान्प्रददौनचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम् , तृतीयेनात्मविद्याम् — ‘येयं प्रेतेइति वराणामेष वरस्तृतीयः’ (क. उ. १ । १ । २०) इति लिङ्गात्तत्र यदिअन्यत्र धर्मात्इत्यन्योऽयमपूर्वः प्रश्न उत्थाप्येत, ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्येतननु प्रष्टव्यभेदादपूर्वोऽयं प्रश्नो भवितुमर्हतिपूर्वो हि प्रश्नो जीवविषयः, येयं प्रेते विचिकित्सा मनुष्येऽस्ति नास्तीति विचिकित्साभिधानात्जीवश्च धर्मादिगोचरत्वात् अन्यत्र धर्मात्इति प्रश्नमर्हतिप्राज्ञस्तु धर्माद्यतीतत्वात्अन्यत्र धर्मात्इति प्रश्नमर्हतिप्रश्नच्छाया समाना लक्ष्यतेपूर्वस्यास्तित्वनास्तित्वविषयत्वात् , उत्तरस्य धर्माद्यतीतवस्तुविषयत्वात्तस्मात्प्रत्यभिज्ञानाभावात्प्रश्नभेदः; पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत्; जीवप्राज्ञयोरेकत्वाभ्युपगमात्भवेत्प्रष्टव्यभेदात्प्रश्नभेदो यद्यन्यो जीवः प्राज्ञात्स्यात् त्वन्यत्वमस्ति, ‘तत्त्वमसिइत्यादिश्रुत्यन्तरेभ्यःइह अन्यत्र धर्मात्इत्यस्य प्रश्नस्य प्रतिवचनम् जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्शयतिसति हि प्रसङ्गे प्रतिषेधो भागी भवतिप्रसङ्गश्च जन्ममरणयोः शरीरसंस्पर्शाच्छारीरस्य भवति, परमेश्वरस्यतथास्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यतिमहान्तं विभुमात्मानं मत्वा धीरो शोचति’ (क. उ. २ । १ । ४) इति स्वप्नजागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयतिप्राज्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तःथाग्रेयदेवेह तदमुत्र यदमुत्र तदन्विहमृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (क. उ. २ । ४ । १०) इति जीवप्राज्ञभेददृष्टिमपवदतितथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरम्अन्यं वरं नचिकेतो वृणीष्वइत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमानोऽपि नचिकेता यदा चचाल, तदैनं मृत्युरभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याविद्याविभागप्रदर्शनेन विद्याभीप्सिनं नचिकेतसं मन्ये त्वा कामा बहवोऽलोलुपन्त’ (क. उ. १ । २ । ४) इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाचतं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ (क. उ. १ । २ । १२) इति, तेनापि जीवप्राज्ञयोरभेद एवेह विवक्षित इति गम्यतेयत्प्रश्ननिमित्तां प्रशंसां महतीं मृत्योः प्रत्यपद्यत नचिकेताः, यदि तं विहाय प्रशंसानन्तरमन्यमेव प्रश्नमुपक्षिपेत् , अस्थान एव सा सर्वा प्रशंसा प्रसारिता स्यात्तस्मात्येयं प्रेतेइत्यस्यैव प्रश्नस्यैतदनुकर्षणम्अन्यत्र धर्मात्इतियत्तु प्रश्नच्छायावैलक्षण्यमुक्तम् , तददूषणम्तदीयस्यैव विशेषस्य पुनः पृच्छ्यमानत्वात्पूर्वत्र हि देहादिव्यतिरिक्तस्यात्मनोऽस्तित्वं पृष्टम् , उत्तरत्र तु तस्यैवासंसारित्वं पृच्छ्यत इतियावद्ध्यविद्या निवर्तते, तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं निवर्ततेतन्निवृत्तौ तु प्राज्ञ एवतत्त्वमसिइति श्रुत्या प्रत्याय्यते चाविद्यावत्त्वे तदपगमे वस्तुनः कश्चिद्विशेषोऽस्तियथा कश्चित्संतमसे पतितां काञ्चिद्रज्जुमहिं मन्यमानो भीतो वेपमानः पलायते, तं चापरो ब्रूयात्मा भैषीः नायमहिः रज्जुरेवइति तदुपश्रुत्याहिकृतं भयमुत्सृजेद्वेपथुं पलायनं त्वहिबुद्धिकाले तदपगमकाले वस्तुनः कश्चिद्विशेषः स्यात्तथैवैतदपि द्रष्टव्यम्ततश्च जायते म्रियते वाइत्येवमाद्यपि भवत्यस्तित्वनास्तित्वप्रश्नस्य प्रतिवचनम्सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम्एकत्वेऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देहव्यतिरिक्तास्तित्वमात्रविचिकित्सनात्कर्तृत्वादिसंसारस्वभावानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते, उत्तरस्य तु धर्माद्यत्ययसङ्कीर्तनात्प्राज्ञविषयत्वमितिततश्च युक्ता अग्निजीवपरमात्मकल्पनाप्रधानकल्पनायां तु वरप्रदानं प्रश्नो प्रतिवचनमिति वैषम्यम् ॥ ६ ॥

प्रश्नैक्यपक्षमादाय सिद्धान्त्याह

अत्रोच्यत इति ।

येन प्रधानसिद्धिः स्यादिति शेषः ।

चतुर्थप्रश्नकल्पने वरत्रित्वोपक्रमविरोधः स्यादिति विवृणोति

वरेत्यादिना ।

वरप्रदानमुपक्रमो यस्याः सा । प्रहिताय यमलोकं प्रति प्रेषिताय । इतः पुनः मर्त्यलोकं प्राप्तस्य मम पिता यथापूर्वं सुमनाः स्यादिति प्रथमं वव्रे ।

ननु द्वितीयवरो जीवविद्या तृतीयो ब्रह्मविद्येति प्रश्नभेदः किं न स्यादित्यत आह

येयमिति ।

प्रेते इत्युपक्रम्य तृतीयत्वोक्तिलिङ्गाज्जीवात्मविद्यैव तृतीयो वर इत्यर्थः ।

एवं वाक्योपक्रमे सति प्रश्नान्तरं न युक्तमित्याह

तत्रेति ।

मरणधर्माद्यस्पर्शलिङ्गाभ्यां प्रष्टव्ययोर्जीवेश्वरयोर्भेदात्प्रश्नभेदसिद्धेर्वाक्यबाधो युक्त इति शङ्कते

नन्वित्यादिना ।

गोचरत्वादाश्रयत्वात् ।

न केवलं प्रष्टव्यभेदात्प्रश्नभेदः किन्तु प्रश्नवाक्ययोः सादृश्याभावादपीत्याह

प्रश्नच्छायेति ।

प्रष्टव्यभेदोऽसिद्ध इति परिहरति

नेत्यादिना ।

किञ्च ब्रह्मप्रश्ने जन्मादिनिषेधेन जीवस्वरूपं वदन् यमस्तयोरैक्यं सूचयतीत्याह

इह चान्यत्रेति ।

तन्निषेधवाक्ये शिवोक्तिरसिद्धेत्यत आह

सतीति ।

भागी युक्तः । तस्मादविद्यया जीवस्य प्राप्तजन्मादिनिषेधेन स्वरूपमुक्तमित्यर्थः ।

किञ्च जीवो ब्रह्माभिन्नः, मोक्षहेतुज्ञानविषयत्वात् , ब्रह्मवदित्याह

तथा स्वप्नेति ।

अन्तोऽवस्था । येन साक्षिणा प्रमाता पश्यति तमात्मानमिति सम्बन्धः ।

हेतोरप्रयोजकत्वमाशङ्क्य 'तमेव विदित्वा' इति श्रुतिविरोधमाह

प्राज्ञेति ।

किञ्चाभेदमुक्त्वा भेदस्य निन्दितत्वादभेद एव सत्य इत्याह

तथेति ।

इह देहे यच्चैतन्यं तदेवामुत्र सूर्यादौ । एवमिहाखण्डैकरसे ब्रह्मणि यो नानेव मिथ्याभेदं पश्यति स भेददर्शी मरणान्मरणं प्राप्नोति संसारभयान्न मुच्यत इत्यर्थः । किञ्च जीवप्रश्नानन्तरं 'तं दुर्दर्शम्' इति यदुत्तरमुवाच तेनाप्युत्तरेणाभेदो गम्यत इति सम्बन्धः ।

प्रष्टृप्रश्नयोः प्रशंसयापि लिङ्गेन पृष्टस्य दौर्लभ्यद्योतनाद्ब्रह्मत्वसिद्धिरित्याह

अन्यं वरमित्यादिना ।

पुत्रादिकं वृणीष्वेत्युक्तेऽपि विषयांस्तुच्छीकृत्यात्मज्ञानान्न चचाल 'नान्यं तस्मान्नचिकेता वृणीते' इति श्रवणात् । तदा सन्तुष्टो यमः 'अन्यच्छ्रेयोऽन्यदुतैव प्रेयः' इति भोगापवर्गमार्गयोर्वैलक्षण्यं प्रतिज्ञाय 'दूरमेते विपरीते विषूची अविद्या या च विद्या' इति दर्शितवानित्यर्थः । प्रेयः प्रियतमं स्वर्गादिकम् , विषूची विरुद्धफले, अविद्या कर्म, विद्या तत्त्वधीः । विद्याभीप्सिनं विद्यार्थिनं त्वामहं मन्ये, यतः त्वा त्वां बहवोऽपि कामाः पुत्रादयो मया दीयमाना दुर्लभा अपि नालोलुपन्त लोभवन्तं न कृतवन्त इति प्रष्टारं स्तुत्वा प्रश्नमपि 'त्वादृङ्नो भूयान्नचिकेतः प्रष्टा' इति स्तुवन्नित्यक्षरार्थः ।

इयं प्रशंसा प्रश्नभेदपक्षे न घटत इत्याह

यत्प्रश्नेति ।

यत्प्रश्नेन स्तुतिं लब्धवांस्तं प्रश्नं विहाय यद्यन्यमेवोत्थापयेत्तर्ह्यनवसरे स्तुतिः कृता स्यादित्यर्थः ।

तस्मादिति ।

प्रष्टव्यभेदाभावादित्यर्थः ।

प्रश्नवाक्यव्यक्त्योः सादृश्याभावात्प्रश्नभेद इत्युक्तं निरस्यति

यत्त्वित्यादिना ।

धर्माद्याश्रयस्य जीवस्य ब्रह्मत्वं कथमित्यत आह

यावदिति ।

अविद्यानाशानन्तरं ब्रह्मत्वं चेदागन्तुकमनित्यं च स्यादित्यत आह

न चाविद्यावत्त्व इति ।

जीवस्य ब्रह्मत्वे स्वाभाविके सति ब्रह्मप्रश्नस्य यदुत्तरं तज्जीवप्रश्नस्यापि भवतीति लाभं दर्शयति

ततश्च न जायत इति ।

जीवब्रह्मैक्ये 'त्रयाणाम्' इति सूत्रं कथमित्यत आह

सूत्रं त्विति ।

कल्पितभेदात्प्रश्नभेदकल्पनेत्याह

ततश्चेति ।

परमात्मनः सकाशात्प्रधानस्य वैषम्यमनात्मत्वेन तृतीयवरान्तर्भावायोगादिति भावः ॥ ६ ॥