ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
महद्वच्च ॥ ७ ॥
यथा महच्छब्दः साङ्ख्यैः सत्तामात्रेऽपि प्रथमजे प्रयुक्तः, तमेव वैदिकेऽपि प्रयोगेऽभिधत्ते, बुद्धेरात्मा महान्परः’ (क. उ. १ । ३ । १०) महान्तं विभुमात्मानम्’ (क. उ. १ । २ । २२) वेदाहमेतं पुरुषं महान्तम्’ (श्वे. उ. ३ । ८) इत्येवमादावात्मशब्दप्रयोगादिभ्यो हेतुभ्यःतथाव्यक्तशब्दोऽपि वैदिके प्रयोगे प्रधानमभिधातुमर्हतिअतश्च नास्त्यानुमानिकस्य शब्दवत्त्वम् ॥ ७ ॥

श्रौतोऽव्यक्तशब्दो न साङ्ख्यासाधारणतत्त्वगोचरः, वैदिकशब्दत्वात् , महच्छब्दवदित्याह

महद्वच्चेति ।

सूत्रं व्याचष्टे

यथेत्यादिना ।

न चाकाशादिशब्दे व्यभिचारः, आकाशादेर्मतान्तरसाधारणत्वेन साङ्ख्यासाधारणत्वासिद्धेः साध्यस्यापि सत्त्वादिति मन्तव्यम् ।

सत्तामात्रे ।

सत्त्वप्रधानप्रकृतेराद्यपरिणामे । निर्विकल्पकबुद्धावित्यर्थः । आत्मा महानित्यात्मशब्दप्रयोगात् , तं मत्वा न शोचति, 'तमसः परस्तादि' त्यादिना शोकात्ययतमः परत्वादिभ्यश्च महच्छब्दः साङ्ख्यतत्त्वं नाभिधत्त इति सम्बन्धः ।

अधिकरणार्थमुपसंहरति

अतश्चेति ॥ ७ ॥