ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
चमसवदविशेषात् ॥ ८ ॥
पुनरपि प्रधानवादी अशब्दत्वं प्रधानस्यासिद्धमित्याहकस्मात् ? मन्त्रवर्णात्अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाःअजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’ (श्वे. उ. ४ । ५) इतिअत्र हि मन्त्रे लोहितशुक्लकृष्णशब्दैः रजःसत्त्वतमांस्यभिधीयन्तेलोहितं रजः, रञ्जनात्मकत्वात्शुक्लं सत्त्वम् , प्रकाशात्मकत्वात्कृष्णं तमः, आवरणात्मकत्वात्तेषां साम्यावस्था अवयवधर्मैर्व्यपदिश्यतेलोहितशुक्लकृष्णेति जायत इति अजा स्यात् , ‘मूलप्रकृतिरविकृतिःइत्यभ्युपगमात्न्वजाशब्दश्छागायां रूढःबाढम्सा तु रूढिरिह नाश्रयितुं शक्या, विद्याप्रकरणात्सा बह्वीः प्रजास्त्रैगुण्यान्विता जनयतितां प्रकृतिमज एकः पुरुषो जुषमाणः प्रीयमाणः सेवमानो वा अनुशेतेतामेवाविद्यया आत्मत्वेनोपगम्य सुखी दुःखी मूढोऽहमित्यविवेकितया संसरतिअन्यः पुनरजः पुरुष उत्पन्नविवेकज्ञानो विरक्तो जहात्येनं प्रकृतिं भुक्तभोगां कृतभोगापवर्गां परित्यजतिमुच्यत इत्यर्थःतस्माच्छ्रुतिमूलैव प्रधानादिकल्पना कापिलानामित्येवं प्राप्ते ब्रूमः

चमसवदविशेषात् । अत्राजापदं विषयः, तत्किं प्रधानपरं मायापरं वेति रूढ्यर्थासम्भवात्संशये पूर्वत्राव्यक्तशब्दमात्रेण प्रधानस्याप्रत्यभिज्ञायामप्यत्र त्रिगुणत्वादिलिङ्गोपेतादजापदात्प्रत्यभिज्ञास्तीति प्रत्युदाहरणेन पूर्वपक्षयति

पुनरपीति ।

फलं पूर्वपक्षे ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति पूर्ववद्द्रष्टव्यम् ।

रागहेतुत्वादिगुणयोगात् लोहितादिशब्दै रजआदिगुणलाभेऽपि कथं प्रधानलाभः, तत्राह

तेषां साम्येति ।

अवयवाः प्रधानस्य रजआदयस्तेषां धर्मा रञ्जकत्वादयः तैर्निमित्तैर्लोहितादिशब्दैः प्रधानमुच्यत इत्यर्थः । गुणाभेदात्प्रधानलाभ इति भावः ।

तत्राजाशब्दं योजयति

नेति ।

'रूढिर्योगमपहरति' इति न्यायेन शङ्कते

नन्विति ।

रूढ्यसम्भवाद्योग आश्रयणीय इत्याह

बाढमिति ।

अजाशब्दितप्रकृतित्वपुरुषभेदलिङ्गाभ्यामपि प्रधानप्रत्यभिज्ञेत्याह

सा चेत्यादिना ।

प्रजायन्त इति प्रजा महदादयः । त्रैगुण्यं सुखदुःखमोहाः ।

अनुशयनं विवृणोति

तामेवाविद्ययेति ।

अविवेकेनेत्यर्थः । विषयधीर्भोगः । गुणभिन्नात्मख्यातिरपवर्गः ।

सिद्धान्तयति

एवं प्राप्त इति ।