चमसवदविशेषात् । अत्राजापदं विषयः, तत्किं प्रधानपरं मायापरं वेति रूढ्यर्थासम्भवात्संशये पूर्वत्राव्यक्तशब्दमात्रेण प्रधानस्याप्रत्यभिज्ञायामप्यत्र त्रिगुणत्वादिलिङ्गोपेतादजापदात्प्रत्यभिज्ञास्तीति प्रत्युदाहरणेन पूर्वपक्षयति
पुनरपीति ।
फलं पूर्वपक्षे ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति पूर्ववद्द्रष्टव्यम् ।
रागहेतुत्वादिगुणयोगात् लोहितादिशब्दै रजआदिगुणलाभेऽपि कथं प्रधानलाभः, तत्राह
तेषां साम्येति ।
अवयवाः प्रधानस्य रजआदयस्तेषां धर्मा रञ्जकत्वादयः तैर्निमित्तैर्लोहितादिशब्दैः प्रधानमुच्यत इत्यर्थः । गुणाभेदात्प्रधानलाभ इति भावः ।
तत्राजाशब्दं योजयति
नेति ।
'रूढिर्योगमपहरति' इति न्यायेन शङ्कते
नन्विति ।
रूढ्यसम्भवाद्योग आश्रयणीय इत्याह
बाढमिति ।
अजाशब्दितप्रकृतित्वपुरुषभेदलिङ्गाभ्यामपि प्रधानप्रत्यभिज्ञेत्याह
सा चेत्यादिना ।
प्रजायन्त इति प्रजा महदादयः । त्रैगुण्यं सुखदुःखमोहाः ।
अनुशयनं विवृणोति
तामेवाविद्ययेति ।
अविवेकेनेत्यर्थः । विषयधीर्भोगः । गुणभिन्नात्मख्यातिरपवर्गः ।
सिद्धान्तयति
एवं प्राप्त इति ।