चतुर्विधस्येति ।
जरायुजाण्डजस्वेदजोद्भिज्जरूपस्येत्यर्थः ।
स्मृत्युक्ता कुतो न ग्राह्येति शङ्कते
कस्मादिति ।
श्रुतेः श्रुत्यन्तरादर्थग्रहो युक्तः, साजात्यान्मूलानपेक्षत्वाच्चेत्याह
तथा हीति ।
शाखिनश्छन्दोगाः ।
किञ्च लोहितादिशब्दैरपि द्रव्यलक्षणा न्याय्या अव्यवधानात्न तु रञ्जनीयत्वादिगुणव्यवहिता सत्त्वादिगुणलक्षणेत्याह
लोहितादीनां चेति ।
ननु शाखान्तरेण शाखान्तरस्थमन्त्रस्य निर्णयः कथमित्यत आह
असन्दिग्धेनेति ।
सर्वशाखाप्रत्ययन्यायादिति भावः ।
यथा शाखान्तरवाक्यान्न प्रधानग्रहस्तथेहापि श्वेताश्वतरोपनिषदि मायाप्रकरणान्न तद्ब्रह्म इत्याह
तथेति ।
सृष्ट्यादौ किंसहायं ब्रह्मेति विमृश्यते । ब्रह्मवादिनो ध्यानाख्ययोगेन परमात्मानमनुप्रविष्टाः सन्तः तत्रैव देवस्यात्मभूतामैक्येनाध्यस्तां शक्तिं परतन्त्रां मायां सत्त्वादिगुणवतीं ब्रह्मणः सहायमपश्यन्नित्यन्वयः । मायाया एकत्वेऽपि तदंशानां जीवोपाधीनां तत्तत्सङ्घातयोनीनामविद्याख्यानां भेदाद्वीप्सा । अव्याकृते अनभिव्यक्ते नामरूपे यस्यां सा । अनेन 'तद्धेदं तर्ह्यव्याकृतमासीत्' इति श्रुत्यन्तरप्रसिद्धिरुक्ता ।
तस्यां शक्तौ व्यक्ताव्यक्तकार्यलिङ्गकानुमानं सूचयति
नामेति ।
मायाया रोहितादिरूपवत्त्वं कथमित्यत आह
तस्या इति ।
विषय आश्रयः ॥ ९ ॥