ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
कथं पुनस्तेजोबन्नानां त्रैरूप्येण त्रिरूपा अजा प्रतिपत्तुं शक्यते, यावता तावत्तेजोबन्नेष्वजाकृतिरस्ति, तेजोबन्नानां जातिश्रवणादजातिनिमित्तोऽप्यजाशब्दः सम्भवतीति; अत उत्तरं पठति
कथं पुनस्तेजोबन्नानां त्रैरूप्येण त्रिरूपा अजा प्रतिपत्तुं शक्यते, यावता तावत्तेजोबन्नेष्वजाकृतिरस्ति, तेजोबन्नानां जातिश्रवणादजातिनिमित्तोऽप्यजाशब्दः सम्भवतीति; अत उत्तरं पठति

एवं प्रकरणबलान्मायैवाजेति भाष्यकृन्मतम् । छान्दोग्यश्रुत्या तेजोऽबन्नलक्षणावान्तरप्रकृतिरजेति सूत्रकृन्मतेनोत्तरसूत्रव्यावर्त्यं शङ्कते

कथमिति ।

किं तेजोबन्नेष्वजाशब्दो रूढो, न जायत इति यौगिको वा । नाद्यः, तेष्वजात्वजातेरसत्त्वादित्याह

यावतेति ।

यत इत्यर्थः । अतो न रूढ इति शेषः ।

न द्वितीय इत्याह

नचेति ।

जातिर्जन्म । अजातिरजन्म ।