ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥
नायमजाकृतिनिमित्तोऽजाशब्दःनापि यौगिकःकिं तर्हि ? कल्पनोपदेशोऽयम्अजारूपककॢप्तिस्तेजोबन्नलक्षणायाश्चराचरयोनेरुपदिश्यतेयथा हि लोके यदृच्छया काचिदजा रोहितशुक्लकृष्णवर्णा स्याद्बहुबर्करा सरूपबर्करा , तां कश्चिदजो जुषमाणोऽनुशयीत, कश्चिच्चैनां भुक्तभोगां जह्यात्एवमियमपि तेजोबन्नलक्षणा भूतप्रकृतिस्त्रिवर्णा बहु सरूपं चराचरलक्षणं विकारजातं जनयति, अविदुषा क्षेत्रज्ञेनोपभुज्यते, विदुषा परित्यज्यत इति चेदमाशङ्कितव्यम्एकः क्षेत्रज्ञोऽनुशेते अन्यो जहातीत्यतः क्षेत्रज्ञभेदः पारमार्थिकः परेषामिष्टः प्राप्नोतीति हीयं क्षेत्रज्ञभेदप्रतिपिपादयिषाकिन्तु बन्धमोक्षव्यवस्थाप्रतिपिपादयिषा त्वेषाप्रसिद्धं तु भेदमनूद्य बन्धमोक्षव्यवस्था प्रतिपाद्यतेभेदस्तूपाधिनिमित्तो मिथ्याज्ञानकल्पितः; पारमार्थिकःएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. उ. ६ । ११) इत्यादिश्रुतिभ्यःध्वादिवत्यथा आदित्यस्यामधुनो मधुत्वम्, वाचश्चाधेनोर्धेनुत्वम् , द्युलोकादीनां चानग्नीनामग्नित्वम्इत्येवंजातीयकं कल्प्यते, एवमिदमनजाया अजात्वं कल्प्यत इत्यर्थःतस्मादविरोधस्तेजोबन्नेष्वजाशब्दप्रयोगस्य ॥ १० ॥

लौकिकाजाशब्दसादृश्यकल्पनया तेजोऽबन्नानामजात्वोपदेशाद्गौणोऽयं शब्द इति परिहरति

कल्पनेति ।

अनियमो यदृच्छा । बर्करो बालपशुः ।

यदुक्तं जीवभेदेन प्रधानवादप्रत्यभिज्ञेति, तन्नेत्याह

न चेदमिति ।

व्यवस्थार्थो भेदोऽप्यर्थात्प्रतिपाद्यत इत्याह

प्रसिद्धं त्विति ।

सत्य एव प्रसिद्ध इत्यत आह

भेदस्त्विति ।

कल्पनोपदेशे दृष्टान्तं व्याचष्टे

मध्विति ।

नच योगस्य मुख्यवृत्तित्वात्तेन प्रधानग्रहो न्याय्य इति वाच्यम् , रूढार्थानपेक्षाद्योगात्तदाश्रितगुणलक्षणाया बलीयस्त्वात् । गुणवृत्तौ हि रूढिराश्रिता भवति । तथाच रोहितादिशब्दसमभिव्याहारानुगृहीतया रूढ्याश्रितया गुणवृत्त्या प्रधाने योगं बाधित्वावान्तरप्रकृतिरजाशब्देन ग्राह्या, यथा मध्वादिशब्दैः प्रसिद्धमध्वाद्याश्रितगुणलक्षणया आदित्यादयो गृह्यन्ते तद्वत् । तस्मादशब्दं प्रधानमिति सिद्धम् ॥ १० ॥