न सङ्ख्योपसङ्ग्रहात् । पञ्चजनशब्दः साङ्ख्यतत्त्वपरोऽन्यपरो वेति योगरूढ्योरनिश्चयात्संशये यथा तत्त्वविद्याधिकारे छागायां तात्पर्याभावादजापदे रूढित्यागस्तथा पञ्चमनुष्येषु तात्पर्याभावात्पञ्चजनशब्देन रूढिं त्यक्त्वा तत्त्वानि ग्राह्याणीतिदृष्टान्तसङ्गतिं सूचयन्मन्त्रमुदाहृत्य पूर्वपक्षयति
एवमित्यादिना ।
फलं पूर्ववत् । प्राणचक्षुःश्रोत्रान्नमनांसि वाक्यशेषस्थाः पञ्चजनाः पञ्च । तत्र चत्वारः सूत्रमन्नं विराट्तयोः कारणमव्याकृतमाकाशश्च यस्मिन्नध्यस्तास्तमेवात्मानममृतं ब्रह्म मन्ये । तस्मान्मननात् विद्वानहममृतोऽस्मीति मन्त्रदृशो वचनम् ।
नन्वस्तु पञ्चत्वविशिष्टेषु पञ्चजनेषु पुनः पञ्चत्वान्वयात्पञ्चविंशतिसङ्ख्याप्रतीतिः, तावता कथं साङ्ख्यतत्त्वग्रह इत्याशङ्क्य सङ्ख्याया धर्म्याकाङ्क्षायां तत्त्वानि ग्राह्याणीत्याह
तथेति ।
जगतो मूलभूता प्रकृतिस्त्रिगुणात्मकं प्रधानमनादित्वादविकृतिः । कस्यचित्कार्यं न भवतीत्यर्थः । महदहङ्कारपञ्चतन्मात्राणीति सप्त प्रकृतयो विकृतयश्च । तत्र महान्प्रधानस्य विकृतिरहङ्कारस्य प्रकृतिः । अहङ्कारस्तामसः पञ्चतन्मात्राणां शब्दादीनां प्रकृतिः, सात्त्विक एकादशेन्द्रियाणाम् । पञ्च तन्मात्राश्च पञ्चानां स्थूलभूतानामाकाशादीनां प्रकृतयः पञ्च स्थूलभूतान्येकादशेन्द्रियाणि चेति षोडशसङ्ख्याको गणो विकार एव न प्रकृतिः, तत्त्वान्तरोपादानत्वाभावात् । पुरुषस्तूदासीन इति साङ्ख्यकारिकार्थः ।