ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्राणादयो वाक्यशेषात् ॥ १२ ॥
यस्मिन्पञ्च पञ्चजनाःइत्यत उत्तरस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टाः — ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुःइतितेऽत्र वाक्यशेषगताः सन्निधानात्पञ्चजना विवक्ष्यन्तेकथं पुनः प्राणादिषु जनशब्दप्रयोगः ? तत्त्वेषु वा कथं जनशब्दप्रयोगः ? समाने तु प्रसिद्ध्यतिक्रमे वाक्यशेषवशात्प्राणादय एव ग्रहीतव्या भवन्तिजनसम्बन्धाच्च प्राणादयो जनशब्दभाजो भवन्तिजनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तःते वा एते पञ्च ब्रह्मपुरुषाः’ (छा. उ. ३ । १३ । ६) इत्यत्रप्राणो पिता प्राणो माता’ (छा. उ. ७ । १५ । १) इत्यादि ब्राह्मणम्समासबलाच्च समुदायस्य रूढत्वमविरुद्धम्कथं पुनरसति प्रथमप्रयोगे रूढिः शक्याश्रयितुम् ? शक्या उद्भिदादिवदित्याहप्रसिद्धार्थसन्निधाने ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारात्तद्विषयो नियम्यते; यथाउद्भिदा यजेत’ ‘यूपं छिनत्ति’ ‘वेदिं करोतिइतितथा अयमपि पञ्चजनशब्दः समासान्वाख्यानादवगतसंज्ञाभावः संज्ञ्याकाङ्क्षी वाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्तिष्यतेकैश्चित्तु देवाः पितरो गन्धर्वा असुरा रक्षांसि पञ्च पञ्चजना व्याख्याताःअन्यैश्च चत्वारो वर्णा निषादपञ्चमाः परिगृहीताःक्वचिच्च यत्पाञ्चजन्यया विशा’ (ऋ. सं. ८ । ६३ । ७) इति प्रजापरः प्रयोगः पञ्चजनशब्दस्य दृश्यतेतत्परिग्रहेऽपीह कश्चिद्विरोधःआचार्यस्तु पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवंपरतयाप्राणादयो वाक्यशेषात्इति जगाद ॥ १२ ॥

पञ्चजनशब्दस्य प्राणादिषु कया वृत्त्या प्रयोग इति शङ्कते

कथं पुनरिति ।

यथा तव तत्त्वेषु जनशब्दस्य लक्षणया प्रयोगस्तथा मम प्राणादिषु पञ्चजनशब्दस्य लक्षणयेत्याह

तत्त्वेष्विति ।

तर्हि रूढ्यतिक्रमसाम्यात्तत्त्वान्येव ग्राह्याणीत्यत आह

समाने त्विति ।

संनिहितसजातीयानपेक्षश्रुतिस्था एव ग्राह्याः । न तु व्यवहितविजातीयसापेक्षस्मृतिस्था इत्यर्थः ।

लक्षणाबीजं सम्बन्धमाह

जनेति ।

जनः पञ्चजन इति पर्यायः ।

पुरुषमित्रादिशब्दवच्च पञ्चजनशब्दस्य प्राणादिलक्षकत्वं युक्तमित्याह

जनवचनश्चेति ।

ननु जायन्त इति जना महदादयः, जनकत्वाज्जनः प्रधानमिति योगसम्भवे किमिति रूढिमाश्रित्य लक्षणाप्रयास इत्यत आह

समासेति ।

यथा अश्वकर्णशब्दस्य वर्णसमुदायस्य वृक्षे रूढिरेवं पञ्चजनशब्दस्य रूढिरेव नावयवशक्त्यात्मको योग इत्यर्थः ।

पूर्वकालिकप्रयोगाभावान्न रूढिरित्याक्षिपति

कथमिति ।

'स्युः पुमांसः पञ्चजनाः' इत्यमरकोशादौ प्रयोगोऽस्त्येव, तदभावमङ्गीकृत्याप्याह

शक्येति ।

जनसम्बन्धाच्चेति पूर्वभाष्ये नरेषु पञ्चजनशब्दस्य रूढिमाश्रित्य प्राणादिषु लक्षणोक्ता । इह तु प्रौढिवादेन प्राणादिषु रूढिरुच्यत इति मन्तव्यम् ।

सङ्गृहीतं विवृणोति

प्रसिद्धेत्यादिना ।

'उद्भिदा यजेत पशुकामः' इत्यत्रोद्भित्पदं विधेयगुणार्थकं कर्मनामधेयं वेति संशये खनित्रादावुद्भित्पदस्य प्रसिद्धेर्यागनामत्वे प्रसिद्धिविरोधाज्ज्योतिष्टोमे गुणविधिरिति प्राप्ते राद्धान्तःयजेत यागेनेष्टं भावयेदित्यर्थः । ततश्चोद्भिदेत्यप्रसिद्धस्य तृतीयान्तस्य यागेनेत्यनेन प्रसिद्धार्थकेन सामानाधिकरण्येन तन्नामत्वं निश्चीयते, उद्भिनत्ति पशून्साधयतीति प्रसिद्धेरविरोधादप्रकृतज्योतिष्टोमे गुणविध्ययोगात् , तद्विधौ चोद्भिदाख्यगुणवता यागेनेति मत्वर्थसम्बन्धलक्षणाप्रसङ्गाच्चेति कर्मनामैवोद्भित्पदम् । तथा छिनत्तीति प्रसिद्धार्थच्छेदनयोग्यार्थकशब्दसमभिव्याहाराद्दारुविशेषो यूपशब्दार्थः करोतीति समभिव्याहाराद्वेदिशब्दार्थः संस्कारयोग्यस्थण्डिलविशेष इति गम्यते । तथा प्रसिद्धार्थकप्राणादिशब्दसमभिव्याहारात्पञ्चजनशब्दः प्राणाद्यर्थक इति निश्चीयत इत्यर्थः ।

एकदेशिनां मतद्वयमाह

कैश्चिदित्यादिना ।

शूद्रायां ब्राह्मणाज्जातो निषादः ।

श्रुत्या पञ्चजनशब्दस्यार्थान्तरमाह

क्वचिच्चेति ।

पाञ्चजन्यया प्रजया विशतीति विट् तया विशापुरुषरूपयेन्द्रस्याह्वानार्थं घोषाः सृष्टा इति यत्तद्युक्तम् , घोषातिरेकेणेन्द्राह्वानायोगादिति श्रुत्यनुसारेण प्रजामात्रग्रहेऽपि न विरोध इत्यर्थः ।

सूत्रविरोधमाशङ्क्याह

आचार्यस्त्विति ।

अतः साङ्ख्यतत्त्वातिरिक्तयत्किञ्चित्परतया पञ्चजनशब्दव्याख्यायामविरोध इति भावः ॥ १२ ॥