ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
भवेयुस्तावत्प्राणादयः पञ्चजना माध्यन्दिनानाम् , येऽन्नं प्राणादिष्वामनन्तिकाण्वानां तु कथं प्राणादयः पञ्चजना भवेयुः, येऽन्नं प्राणादिषु नामनन्तीतिअत उत्तरं पठति

शङ्कोत्तरत्वेन सूत्रं गृह्णाति

भवेयुरिति ।

ज्योतिषां सूर्यादीनां ज्योतिस्तद्ब्रह्म देवा उपासत इत्यर्थः ।