ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥
असत्यपि काण्वानामन्ने ज्योतिषा तेषां पञ्चसंख्या पूर्येततेऽपि हियस्मिन्पञ्च पञ्चजनाःइत्यतः पूर्वस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणायैव ज्योतिरधीयतेतद्देवा ज्योतिषां ज्योतिःइतिकथं पुनरुभयेषामपि तुल्यवदिदं ज्योतिः पठ्यमानं समानमन्त्रगतया पञ्चसंख्यया केषाञ्चिद्गृह्यते केषाञ्चिन्नेतिअपेक्षाभेदादित्याहमाध्यन्दिनानां हि समानमन्त्रपठितप्राणादिपञ्चजनलाभान्नास्मिन्मन्त्रान्तरपठिते ज्योतिष्यपेक्षा भवतितदलाभात्तु काण्वानां भवत्यपेक्षाअपेक्षाभेदाच्च समानेऽपि मन्त्रे ज्योतिषो ग्रहणाग्रहणेयथा समानेऽप्यतिरात्रे वचनभेदात्षोडशिनो ग्रहणाग्रहणे, तद्वत्तदेवं तावच्छ्रुतिप्रसिद्धिः काचित्प्रधानविषयास्तिस्मृतिन्यायप्रसिद्धी तु परिहरिष्येते ॥ १३ ॥

नन्विदं षष्ठ्यन्तज्योतिःपदोक्तं सूर्यादिकं ज्योतिः शाखाद्वयेऽप्यस्ति, तत्काण्वानां पञचत्वपूरणाय गृह्यते नान्येषामिति विकल्पो न युक्त इति शङ्कते

कथं पुनरिति ।

आकाङ्क्षाविशेषाद्विकल्पो युक्त इत्याह

सिद्धान्तीअपेक्षेति ।

यथा अतिरात्रे षोडशिनं गृह्णाति न गृह्णाति इति वाक्यभेदाद्विकल्पस्तद्वच्छाखाभेदेनान्नपाठापाठाभ्यां ज्योतिषो विकल्प इत्यर्थः । ननु क्रियायां विकल्पो युक्तो न वस्तुनीति चेत् । सत्यम् । अत्रापि शाखाभेदेन सान्ना ज्योतिःसहिता वा पञ्च प्राणादयो यत्र प्रतिष्ठितास्तन्मनसानुद्रष्टव्यमिति ध्यानक्रियायां विकल्पोपपत्तिरित्यनवद्यम् ।

उक्तं प्रधानस्याशब्दत्वमुपसंहरति

तदेवमिति ।

तथापि स्मृतियुक्तिभ्यां प्रधानमेव जगत्कारणमित्यत आह

स्मृतीति ॥ १३ ॥