ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥
प्रतिपादितं ब्रह्मणो लक्षणम्प्रतिपादितं ब्रह्मविषयं गतिसामान्यं वेदान्तवाक्यानाम्प्रतिपादितं प्रधानस्याशब्दत्वम्त्रेदमपरमाशङ्क्यते जन्मादिकारणत्वं ब्रह्मणो ब्रह्मविषयं वा गतिसामान्यं वेदान्तवाक्यानां प्रतिपादयितुं शक्यम्कस्मात् ? विगानदर्शनात्प्रतिवेदान्तं ह्यन्यान्या सृष्टिरुपलभ्यते, क्रमादिवैचित्र्यात्तथा हिक्वचित् आत्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्याकाशादिका सृष्टिराम्नायतेक्वचित्तेजआदिका तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इतिक्वचित्प्राणादिका प्राणमसृजत प्राणाच्छ्रद्धाम्’ (प्र. उ. ६ । ४) इतिक्वचिदक्रमेणैव लोकानामुत्पत्तिराम्नायते इमाँल्लोकानसृजतअम्भो मरीचीर्मरमापः’ (ऐ. उ. १ । १ । २) इतितथा क्वचिदसत्पूर्विका सृष्टिः पठ्यतेअसद्वा इदमग्र आसीत्ततो वै सदजायत’ (तै. उ. २ । ७ । १) इति, असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत्’ (छा. उ. ३ । १९ । १) इति क्वचिदसद्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायतेतद्धैक आहुरसदेवेदमग्र आसीत्’ (छा. उ. ६ । २ । १) इत्युपक्रम्य, कुतस्तु खलु सोम्यैवꣳ स्यादिति होवाच कथमसतः ज्जायेतेतिसत्त्वेव सोम्येदमग्र आसीत्’ (छा. उ. ६ । २ । २) इतिक्वचित्स्वयंकर्तृकैव व्याक्रिया जगतो निगद्यतेतद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत’ (बृ. उ. १ । ४ । ७) इतिएवमनेकधा विप्रतिपत्तेर्वस्तुनि विकल्पस्यानुपपत्तेर्न वेदान्तवाक्यानां जगत्कारणावधारणपरता न्याय्यास्मृतिन्यायप्रसिद्धिभ्यां तु कारणान्तरपरिग्रहो न्याय्य इत्येवं प्राप्ते ब्रूमः

कारणत्वेन चाकाशादिषु तथाव्यपदिष्टोक्तेः । पूर्वग्रन्थेनास्य सङ्गतिं वक्तुं वृत्तमनुवदति

प्रतिपादितमिति ।

अधिकरणत्रयेण प्रधानस्याश्रौतत्वोक्त्या जगत्कारणत्वलक्षणेन ब्रह्मण एव बुद्धिस्थता, तस्मिन्नेव बुद्धिस्थे निर्विशेषे ब्रह्मणि वेदान्तानां समन्वय इति साधितं पूर्वसूत्रसन्दर्भेण । तत्र लक्षणसमन्वययोरसिद्धिरेव, श्रुतीनां विरोधदर्शनादित्याक्षेपरूपां तेनास्य सङ्गतिमाह

तत्रेति ।

न चाविरोधचिन्ताया द्वितीयाध्याये सङ्गतिर्नास्मिन्नध्याय इति वाच्यम् , सिद्धे समन्वये स्मृत्यादिमानान्तरविरोधनिरासस्य द्वितीयाध्यायार्थत्वात् , तत्पदवाच्यजगत्कारणवादिश्रुतीनां मिथो विरोधाद्वाच्यार्थानिर्णयेन लक्ष्ये समन्वयासिद्धौ प्राप्तायां तत्साधकाविरोधचिन्ताया अत्रैव सङ्गतत्वात् । न चैवं सृष्टिश्रुतीनामप्यविरोधोऽत्रैव चिन्तनीय इति वाच्यम् , स्वप्नवत्कल्पितसृष्टौ विरोधस्यैवाभावात् । किमर्थं तर्हि द्वितीये तच्चिन्तनम् , स्थूलबुद्धिसमाधानार्थमिति ब्रूमः । इह तु सूक्ष्मदृशां वाक्यार्थे समन्वयज्ञानाय तत्पदार्थश्रुतिविरोधः परिह्रियते । यद्यपि त्वम्पदार्थश्रुतिविरोधोऽत्र परिहर्तव्यः तथापि प्रथमसूत्रेण बन्धमिथ्यात्वसूचनादविरोधः सिद्धः । प्रपञ्चस्तु स्थूलबुद्धिसमाधनप्रसङ्गेन भविष्यतीति मन्यते सूत्रकारः । अत्र जगत्कारणश्रुतयो विषयः ।

ताः किं ब्रह्मणि मानं न वेति संशयेऽन्नज्योतिषोः सङ्ख्यादृष्टिक्रियायां विकल्पेऽपि कारणे वस्तुन्यसद्वा सद्वा कारणमित्यादिविकल्पासम्भवादप्रामाण्यमिति प्रत्युदाहरणेन पूर्वपक्षयन्नुक्ताक्षेपं विवृणोति

प्रतिवेदान्तमित्यादिना ।

वेदान्तानां समन्वयसाधनाच्छ्रुत्यध्यायसङ्गतिः । असदादिपदानां सत्कारणे समन्वयोक्तेः पादसङ्गतिः । पूर्वपक्षे समन्वयासिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरिति विवेकः ।

क्रमाक्रमाभ्यां सृष्टिविरोधं तावद्दर्शयतितथाहि

क्वचिदित्यादिना ।

स परमात्मा लोकानसृजत । अंमयशरीरप्रचुरस्वर्गलोकोऽम्भः शब्दार्थः । सूर्यरश्मिमव्याप्तोऽन्तरिक्षलोको मरीचयः । मरो मर्त्यलोकः । अब्बहुलाः पाताललोका आप इति श्रुत्यर्थः ।

सृष्टिविरोधमुक्त्वा कारणविरोधमाह

तथेति ।

असदनभिव्यक्तनामरूपात्मकं कारणम् , ततः कारणात्सदभिव्यक्तम् । एतत्तुल्यार्थं छान्दोग्यवाक्यमाह

असदेवेति ।

किं शून्यमेव, नेत्याह

तत्सदिति ।

अबाधितं ब्रह्मैवासीदित्यर्थः । तद्ब्रह्मात्मना स्थितं जगत्सृष्टिकाले सम्यगभिव्यक्तमभवत् । प्रक्रिया सृष्टिः । तत्तत्र कारणे । एके बाह्याः ।

तेषां मतं श्रुतिरेव दूषयति

कुत इति ।

कुत एवंपदयोरर्थमाह

कथमिति ।

स्वमतमाह

सदिति ।

तदिदं जगद्ध किल तर्हि प्राक्कालेऽव्याकृतं कारणात्मकमासीत् ।

श्रुतीनां विरोधमुपसंहरति

एवमिति ।

किमत्र न्याय्यमित्याशङ्क्य मानान्तरसिद्धप्रधानलक्षकत्वं वेदान्तानां न्याय्यमित्याह

स्मृतीति ।